________________
४०२
___हीरसौभाग्यम् [सर्ग ६ श्लो० ५०-५२ ध्ययनकार्याय प्रणोदितैः प्रेरितैः पुरस्य देवगिरिनगरस्य संघजनैः श्राद्धवर्गः । यद्यपि साधुसाध्वीश्रावकश्राविकारूपचतुर्विधः संघः प्रोच्यते तथाप्यत्राधिकारात्संप्रदायाद्वा श्राद्ध वर्ग एव संघः कुतश्चन कस्मादपि स्थानात् द्विजो ब्राह्मण आनायि आकारितः । उत्प्रेक्ष्यते-घुसद्गुरो हस्पतेः प्रतिबिम्बमिवापररूपमिव ॥
કલેકાર્થ ત્યારપછી, મુનિઓમાં ચન્દ્ર સમાન હીરહર્ષમુનિએ, પોતાના અધ્યયન માટે દેવગિરિનગરીના શ્રાવકસંધને પ્રેરણ કરવાથી, શ્રાવકોએ કઈ સ્થાનેથી સુરગુરુ (બૃહસ્પતિ) સમાન બ્રાહ્મણ પંડિતને બોલાવ્યો. પ૦
तदुपान्तभुवं व्यभूषयत् , स ततो गौरगरुद्गतिर्द्विजः । अवतीर्ण इवारविन्दभूः, स्वकसर्गस्य दिदृक्षया क्षितौ ॥५१॥
तत आकारितानन्तर सद्विजः पण्डितब्राह्मणः तस्य हीरहर्षगणेरुपान्तभुव समीपक्षोणी व्यभूषयदलंचकार प्रभोः पार्श्व समायातः । किंभूतो द्विजः । गौरगरुत्सितच्छदो हंसस्तद्वन्मन्थरा गतिर्यस्य । उत्प्रेक्ष्यते-स्वकस्यात्मना कृतस्य सर्गस्य भूलोकसृष्टेः दिहक्षया द्रष्टुमिच्छया क्षितौ पृथिव्यामवतीर्णवानायातः अरविन्दभूब्रह्मव ॥
શ્લેકાર્થ હંસ જેવી મંથરગતિવાળા બ્રાહ્મણ પંડિત, શ્રીહરિહર્ષગણિની સમીપની ભૂમિને અલંકૃત કરી. તે જાણે સ્વયં સર્જન કરેલા આ ભૂમંડલને જોવાની ઈચ્છાથી પૃથ્વી ઉપર સાક્ષાત બ્રહ્મા આવ્યા ન હોય ! પ૧
द्विज विशिनष्टिमृडमूर्धनिवाससौहृदा-म्मिलितु जमुतामिवागताम् ।
अलिकार्धविधु ललाटिकां, वहमानो हरिचन्दनोद्भवाम् ॥५२॥
किं कुर्वाणो द्विजः । हरिचन्दनोद्भवां श्रीखण्डनिर्मितां ललाटिकां ललाटालंकारम् । तिलकमित्यर्थः । 'ललाटिकासीमनि चूर्णकुन्तला' इति नैषधे । लोके 'आडि' इति प्रसिद्धा । वहमानो बिभ्राणः । उत्प्रेक्ष्यते-मृडस्येश्वरस्य मूर्धनि मस्तके निवास एकत्र स्थितिनिवसन तेन यत्सौहृद मैत्री तस्मादलिकार्धविधु भालरूपार्धचन्द्रम् । 'लब्धार्धचन्द्र ईशः' इति चम्पूकथायाम् । मिलितुमागतां जर्नुसुतां गङ्गामिव ॥
શ્લેકાર્થ પંડિતજીના કપાળે હરિચંદનવડે કરેલી આડ શોભતી હતી. તે આડ, ઈશ્વરના મસ્તકરૂપ એક જ સ્થાને નિવાસ કરી રહેલી હેવાથી, મિત્રતાને કારણે મળવા માટે આવેલી જણે ગંગા નદી ન હોય ! પર