SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ सर्ग ६ श्लो० ४७-५०] हीरसौभाग्यम् । ४०१ प्रति व्रजति स्म । कदा । कदापि कस्मिन्नपि समये । कया । गुरोविजयदानसूरेगिरा वाचा । किं कर्तुम् । परेषां शैवादीनां शासनानि दर्शनानि तेषां तत्संबन्धिनां शास्त्राणां प्रमाणग्रन्थानां मालिकां श्रेणीमध्येतु पठितुम् । परशासनोपनिषद शातुमित्यर्थः । किंवत् । दिनेशवत् । यथा भास्वान्दक्षिणां दिश प्रति याति ॥ કાર્થ એક સમયે, ગુદેવ શ્રી વિજયદાનસૂરિજીની આજ્ઞાથી, સૈવ આદિ ઈતર દર્શનનું અધ્યયન કરવા માટે સૂર્યની જેમ હીરહર્ષમુનિએ પૂર્વવર્ણિત દક્ષિણદિશા તરફ વિહાર કર્યો. પછી अथ देवगिरावगम्यता-खिलतर्काधिजिगांसयामुना । पटलेन पयोमुचां यथा, सलिलादानसमीहयाम्बुधौ ॥४८॥ अथेति दक्षिणदिग्गमनानन्तरममुना हीरहर्षगणिना देवगिरौ नगरे अगम्यत गतम् । कया। अखिल समस्त यत्तर्कशास्त्र तस्याधिजिगांसया पिपठिषया । 'इश्च'। 'इङ्ग अध्ययने' इत्यस्य धातोगमिरादेशः स्यात्सनि परे । 'अधिजिगांसते' इति प्रक्रियाकौमुद्याम् । केनेव । पटलेनेव । यथा पयोमुचां मेघानां पटलेन वृन्देन सलिलानां जलानामादान ग्रहण तस्य समीहया वाञ्छया अम्बुधौ समुद्रे गम्यते । 'अब्दैारिजिघृक्षयार्णवगतैः साक वजन्ती मुहुः' इति खण्डप्रशस्तौ । अत्र यथा इवार्थे ॥ सार्थ મેધોનો સમૂહ, જલગ્રહણ કરવાની ઇચ્છાથી જેમ સમુદ્ર પાસે જાય છે, તેમ હીરવમુનિએ સમસ્ત તકે એ ભણવાની ઈચ્છાથી દેવગિરિ નગરીમાં પ્રવેશ કર્યો. ૪૮ पठता सइ धर्मसागर-व्रतिना देवगिरौ गुरुर्व्यभात् । । सहकार इव प्रफुल्लता, नवराजादनशाखिना वने ॥४९॥ सह पठता सार्धमधीयानेन धर्मसागरनाम्ना वतिना मुनिना गुरु विनि भूतोपचारात् हीरहर्षगुरुर्व्यभात् बभासे । क इव । सहकार इव । यथा प्रफुल्लता विकसता नवः प्रत्यग्रः राजादनः प्रियाल एव शाखी द्रुमः तेन वने सहकारो माकन्दो भाति ॥ શ્લોકાઈ દેવગિરિનગરીમાં, સહાધ્યાયી એવા ધર્મસાગર મુનિની સાથે હરહર્ષમુનિ, જેમ વિકસ્વર નવા રાયણવૃક્ષની સાથે આમ્રવૃક્ષ શોભે તેમ શેભતા હતા. ૪૯ पुरसंघजनैः प्रणोदितै-रमुनाधीतिकृते कृतीन्दुना । प्रतिबिम्बमिव घुसद्गुरो-द्विज आनायि ततः कुतश्चन ॥५०॥ ततस्तदनन्तर कृतीन्दुना कोविदचन्द्रेण अमुना हीरहर्षगणिना अधीतिकृते स्वा
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy