SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ___ हीरसौभाग्यम् [सर्ग ६ श्लो० ४५-४७ विमनायमानया विरुद्धमनस्कीभवन्त्या लज्जाखेदचिन्तादुःखोदयमनुभवन्त्या। 'चिराय तस्ये विमनायमानया' इति नैषधे । 'भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः' । 'भृशादिभ्यो भुव्यर्थे भवत्यर्थे क्यङ्ग स्यात् । न तु व्यन्तेभ्यः अन्तहल् लोपश्च । अभृशो भृशो भवतीति भृशायते । नोन्मना उन्मना भवतीत्युन्मनायते' इति प्रक्रियाकौमुद्याम् । तथा न विमना वि. मना भवतीति विमनायते । विमनायते इति इति विमनायमाना तया विमनायमानया सत्या दयितोपास्तिनिभात्समुद्रशायिनः कान्तकृष्णस्य सेवाकपटाज्जलधौ समुद्रे अगम्यत गता । द्धितेत्यर्थः। इति जसमादेवी ॥ શ્લોકાઈ જસમાદેવીના સૌદર્યથી પરાભવ પામેલી લક્ષ્મી લજજા, દુઃખ અને સંતાપથી જાણે વિમનરક બની ગઈ હોય તેમ પોતાના સ્વામી વિષ્ણુની સેવાના બહાને તેણે શું સમુદ્રમાં ઝંપાપાત કર્યો ? અર્થાત જસમાદેવી ખુબસુરત હતી પાપા युवसंमदकन्दलीघनैः, कमलानन्दनकेलिशीलनैः । त्रिदशाविव दम्पती सुखं, वसतस्तौ त्रिदिवोपमे पुरे ॥४६।। तौ दम्पती जसमादेवीदेवसीव्यवहारिणौ पुरे देवगिरिनगरे सुख यथा स्यात्तथा वसतस्तिष्ठतः । किंभूते पुरे। त्रिदिवस्य देवलोकस्य उपमा सादृश्य यस्य । तौ काविव । त्रिदशाविव । यथा देवीदेवौ त्रिदिवे स्वर्गे सुख वसतः । देवी च देवश्च देवौ, त्रिदशो च त्रिदशश्च त्रिदशौ । 'पुमान् स्त्रिया' । 'स्त्रिया सहोक्तौ पुमान् शिष्यते, न स्त्री । ब्राह्मणी च ब्राह्मणश्च ब्राह्मणौ' इति प्रक्रियाकौमुद्याम् । तथा 'आदेश्च द्वन्द्वे' । 'द्वन्द्वे आदिपदस्य लोपो भवति । माता च पिता च पितरौ श्वशुरौ' इत्यादि सारस्वतव्याकरणेऽपि । सुख वसतः तिष्ठतः । कमलाया लक्ष्म्या नन्दनः पुत्रः कामस्तस्य केलिःक्रीडा तस्याः शीलनैः सेवनैः पञ्चविषयभोगानभवनैः। किंभूते। यूनां तरुणानां समदा आनन्दास्ते एव कन्दल्यः कन्दास्तेषु घनमेंधैः । तदुल्लासकारकत्वात् । 'कन्दलं तु नवाङ्कुरे कलध्वनावुपरागे मृगमदे कलापे पञ्चस्वपि त्रिलिङ्गः । कदलीद्रुमे रम्भाख्ये' इत्यनेकार्थस्तदवचूरिश्च । अथ वा तरुणानां वर्षा एव कन्दल्यः रम्भास्तेषु घनः जलधरैः ॥ કલોકાઈ વર્ગપુરી સમાન દેવગિરિનગરીમાં, યુવાન પુરુષોના આનંદ-કંદમાટે મેઘસમાન તે દંપતિ, કામક્રીડાના અનુભવથી દેવયુગલની જેમ સ્વર્ગીય સુખને આનંદ ભોગવતા હતા. ll परशासनशास्त्रमालिका-मयमध्येतुमथो गुरोगिरा । ब्रजति स्म कदापि दक्षिणां, हरित हीरमुनिर्दिनेशवत् ।।४७|| अथो हीरहर्षगणेरधिकारप्रारम्भे अय पूर्वव्यावर्णितो ग्रन्थनायको वा हीरमुनि हरिहर्षनामा मुनिर्गणिराचार्योपाध्यायादीनां सर्वेषां साधुसंशातु जागत्येवेति दक्षिणां हरित
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy