________________
३९८
हीरसौभाग्यम् सर्ग ६ श्लो० ४०-४२ अत्र देवगिरौ कोऽप्यनिर्दिष्टनामा सुधाशनो देवः । उत्प्रेक्ष्यते-अवतीर्णवान् किमु । अवतारं गृहीतवानिव । किं कुर्वन् । अस्य देवसीव्यवहारिणः वपुः शरीरं दधत् बिभ्राणः । किंभूतः । सुधाशनः। सुराणां देवानां यौवतस्य युवतीसमूहस्य जैत्रा जयनशीला कान्तिः शोभा यासां तादृशीभिर्यस्य नगरस्य युवतीमिस्तरुणीभिः सम संगमे रङ्गो रा. गोऽस्थास्मिन्वा । रगो नृत्ययुद्भुवो। रागेच' इत्यनेकार्थः । तादृझ्मानस मनो यस्य ॥
या દેવાંગનાઓના રૂપને શરમાવે તેવી સૌદર્યશાળી દેવગિરિનગરીની સ્ત્રીઓ સાથેના સંગમમાં આસક્ત ચિત્તવાળો કોઈક દેવ, આ “દવસી શ્રેષ્ઠીના શરીરને ધારણ કરીને જાણે આ નગરીમાં અવતર્યો ન હોય ! ૪૦
कमनः कमनात्प्रसेदुषः, सह सारङ्गदृशोपशीलितात् ।
भव साङ्ग इतीव तनिभा-दरमाप्याजनि मूर्तिमानिह ॥४१॥ कमनः कामस्तन्निभाद्देवसीच्छलात् । उत्प्रेक्ष्यते-इह देवगिरौ मूर्तिमान् शरीरयुक्त इवाजनि सजातः । किं कृत्वा । सारङ्गशा सह स्वप्रियया रत्या सार्धम् । उपशीलितात्समीपं समेत्यातिशयेन सेवितादत एव प्रसेदुषः प्रसन्नीभूतात्कमनाद्विधातुः । 'कमनः कलाकेलिरनन्यजोऽङ्गजः' इति कन्दर्पनामानि । तथा । 'कमनः सात्त्विकवेदगर्भाः' इति विधातुर्नामानि । इदं द्वयमपि हैम्याम् । सकाशादित्यमुना प्रकारेण वरमिष्टाभिलाषसि. द्धिमाप्य लब्ध्या । इति किम् । यत् हे स्मर, त्वं साक्ष्यो भव अस्मत्प्रभावात्सशरीरः संपद्यस्वेति ॥ इति देवसीव्यवहारी ॥
प्रयोआर्थ પિતાની પ્રિયા રતિ સાથે કામદેવે બ્રહ્માની અત્યંત સેવા કરવાથી તુટમાન થયેલા બ્રહ્મા પાસેથી, હે કામદેવ, મારા પ્રભાવથી તું સશરીરી બન, આવા વરદાનને પામીને દેવસીશ્રેષ્ઠીના રૂપે જાણે સાક્ષાત દેહધારી કામદેવ જન્મે ન હોય, તેવા સૌંદર્યશાલી દેવસીશ્રેષ્ઠી હતા. ૪
अदसीयविलासवत्यभू-जसमादेव्यभिधानधारिणी । विधिना प्रहितेव वर्णिका, त्रिदिवस्त्रैणदिदृक्षुभूस्पृशाम् ॥४२॥
__ अदसीया देवसीव्यवहारिसंबन्धिनी । 'मुखविधुमदसीय सेवितु लम्बमानः' इति नैषधे । विलासवती गृहिणी जसमादेवीत्यभिधान नाम धरत्येवंशीला धारिणी अभूत्सजाता । उत्प्रेक्ष्यते-त्रिदिवस्य स्वर्गलोकस्य स्त्रैण देवाङ्गनावर्ग द्रष्टुमिच्छवो दिदृक्षवस्ता. दृशा भूस्पृशो मानवास्तेषां कृते विधिना ब्रह्मणा वर्णिकेव प्रहिता भूमौ प्रेषिता ॥
શ્લેકાર્થ દેવસીશ્રેષ્ઠાની જમાદેવી નામની પ્રિયા હતી, તે જમાદેવી દેવાંગનાઓના સમૂહને જોવાની