________________
सर्ग ६ श्लो० ३३-३५ ]
straterre
३९५
रुद्र (त्व) ता इन्द्रेण इदमिन्दुमुखीनामस्य देवगिरिनगरस्य चन्द्राननानां नागरीणां मिषाद्वयाजात् । उत्प्रेक्ष्यते - इह दक्षिणस्यां दिशि स्वर्गिमृगीदृशः अप्सरसः किमु प्रहिताः प्रेषिता इव । किं कर्तुम् । स्वपदमिन्द्रपदवी देवलोकैश्वर्यं तस्याभिकं तपसा कामयितारं कुम्भसंभवमगस्ति तापसं तपस उपवासादिकष्टकरणात्पातयितुं भ्रंशयितुम् । इदं तु शैवशासनानुयायि वचो न जैनपरम् । कविसमयानुगामित्वादुक्तमित्यभ्यूह्यम् ॥
ક્લાકા
એશ્વર્યા (ઇન્દ્ર પદવી)ની પૃહાથી તપશ્ચર્યા કરી રહેલા અગતિ મુનિને તપથી ભ્રષ્ટ કરવા નાટે, દેવિગિર નગરની સ્ત્રીએાના બહાને ઈન્દ્ર સ્વર્ગમાંથી જાણે અપ્સરાએ મેકલી ન હોય ! ।।૩૩।।
जलकेलिगलद्विलेपनी—-कृतगोशीर्षविलोचनाञ्जनैः ।
पुरि पद्मशः प्रकुर्वते, गृहवापीविधुमण्डलीरिकः ||३४||
पुरि देवगिरिनगरे पद्मदृशः कमललोचनाः स्त्रियः गृहवापीजलभवनविलासदीर्घिका विधुमण्डलीः शशिबिम्बानीव प्रकुर्वते । मण्डलशब्दस्त्रिषु लिङ्गेषु । 'कुवलयमृणालमण्डलाः' इति लिङ्गानुशासने । मण्डलः, मण्डलम्, मण्डली । तथा च नैषधे- 'शुद्धा सुधादीधितिमण्डलीयम्' इति । कः जलकेलिषु सलिलक्रीडासु गलद्भिर्जलसंगमात् द्रवीभूय निष्पतद्भिः । विलेपनीकृतैरङ्गरागतां प्रापितैगशीर्षैश्चन्दनद्रवैस्तथा विलोचनानां नेत्राणा मञ्जनैः कज्जलैः । कृत्वा चन्दनद्रवानुषङ्गात्सलिलानामौज्ज्वल्यं तथा कुत्रचिल्लाञ्छन्नस्थाने कजलकालिमा जायते इति शशाङ्कसादृश्यम् ॥ इति देवगिरिनगराङ्गनाः ॥
લેાકા
ગૃહવાવડીનાં દેવિગિર નગરની સ્ત્રીઓની જલક્રીડાથી, વિલેપન કરેલા ગાશી ચંદનના પ્રવાહીથી ઉજજવલ અને નેત્રોના અંજનથી સ્પામતા આવવાથી ગૃહવાપિકાએનું જલ જાણે ચન્દ્રની ભડલી બની ગઈ ન હેાય, તેવી ભાસતી હતી, અર્થાત્ ચંદનના દ્રવથી ઉજવલ અને કાજળતી કાલિમાથી શ્યામ બનેલી ગૃહવાવડીએ ચન્દ્રમ`ડળી સમાન ભાસતી હતી! !!કા
पुरि तत्र निजामसाहिना-जनि राज्ञा रघुसूनुनी तिना । तदुपात दिशा महस्विना, विदधे येन यमोऽपि दण्डभृत् ।। ३५ ।।
तत्र तस्यां पुरि देवगिरिनगय निजामसाहिरिति नाम यस्य तादृशेन राज्ञा नृपेण अजनि जज्ञे । किंभूतः । रघुसूनुः रामचन्द्रस्तद्वन्नीतियों यस्य । येन महस्विना प्रबल प्रतापवता निजामसाहिना यमः सुरसू (सु) तोऽपि दण्ड राजदेयांश वेत्रयष्टि वा बिभ तति दण्डभृत् विदधे । दण्डदाता प्रतीहारो वा कृत इत्यर्थः । किंभूतेन येन । तस्य यमस्य उपात्ता गृहीता स्वायत्तीकृता दिग्दक्षिणा हरिथेन । 'यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिर्दण्डधरोऽर्कसूनुः' इति हैम्याम् ॥