________________
३९४
हीरसौभाग्यम् [सर्ग ६ श्लो० ३०-३३ वरैश्छिद्रेरिति तद्वृत्तिः । उत्प्रेक्ष्यते-मरुतां देवानां तनूनां गर्वः शरीरसौन्दर्यातिशयाभिमानः तस्य खर्वता कुब्जीकरणत्व नीचैःकारिता तिरस्कारकत्व तस्य कृतये कार्यार्थ वि. श्वकृता जगत्सृष्टिविधायिना ब्रह्मणा कृताः स्वयं निष्पादिता इव ॥
બ્લેકાર્થ કાર્તિકરવામીના શરીર જેવી કાંતિવાળા દેવગિરિ નગરના પૌરજને અત્યંત શોભી રહ્યા છે, તે જાણે, દેના શરીરની સુંદરતાના અભિમાનનું ખંડન કરવા માટે બ્રહ્માએ બનાવ્યા ન હોય ! ૩૦
रतिकान्तकलावहेलि य-तरुणानां तनुरामणीयकम् । स्पृहयन्त इवात्मजन्मनो, निकटेऽहर्निशमासते मुराः ॥३१॥
सुरा देवा आत्मजन्मनो ब्रह्मणः। 'नाभिपद्मात्मभूरपि' इति हैम्याम् । निकटे समीपे अहर्निश नित्यमासते तिष्ठन्ति । 'आसते शतमधिक्षिति भूपास्तोयराशिरसि ते खलु कूपाः' इति नैषधे । उत्प्रेक्ष्यते-यत्तरुणानां देवगिरिनगरवयस्थनागराणां रतिकान्तस्य स्मरस्य कलां रूपशोभालक्षणाम् । अथ वा भावप्रधाननिर्देशात्कलत्वं मनोज्ञतामवहेलयत्येवंशील तनूनां शरीराणां रामणीयक सौन्दर्य स्पृहयन्तः इव अर्थादभ्यर्थयन्त इव ॥ इति देवगिरिनागराः ॥
બ્લેકાર્થ કામદેવની સુંદરતાને શરમાવે એવી દેવગિરિના યુવાનની સુંદરતાને ઝંખતા દે, બ્રહ્માની સમીપે જાણે નિરંતર પ્રાર્થના કરતા રહેલા ન હોય. શા
प्रतिपञ्चमुखं द्विष व्ययी-कृतसर्वास्त्रतया निरायुधः ।
अकरोदिदमङ्गनामिषा-दिव हेतीः शतशः स्मरः पुनः ॥३२॥
स्मरः कामः इदमङ्गनानां देवगिरिनागरीणां मिषात्कपटात् । उत्प्रेक्ष्यते-शतशः बहूनि शतानि हेतीः प्रहरणान्यकरोदिव चकार । किंभूतः स्मरः। द्विष स्ववैरिण पञ्चमुखमीश्वरं प्रति । 'पञ्चमुखोऽष्टमूर्तिः' इति हैम्याम् । व्ययीकृतानि संग्रामे क्षिप्तानि सर्वाणि समस्तान्यस्त्राण्यायुधानि येन तत्त्वेन । मुख मुख प्रत्येकैक बाण क्षिप्तम् । एवं पञ्चानामपि शराणां क्षेपान्निरायुधीभूतः शस्त्ररहितो जातः ॥
सर्थ . યુદ્ધમાં પોતાના શત્રુ ઈશ્વરના પ્રત્યેક મુખ ઉપર એકેક બાણ ફેકવાથી સર્વથા નિઃશસ્ત્ર બનેલા કામદેવ, દેવગિરિની પૌરાંગનાઓ (સ્ત્રીઓ)ના બહાને જાણે બીજાં સેંકડે નવાં સ્ત્રો તૈયાર - કર્યા ન હોય ! ૩૨૫
स्वपदाभिककुम्भसंभव, तपसः पातयितु मरुद्व(त्व)ता । इदमिन्दुमुखीमिषादिह, प्रहिताः स्वर्गिमृगीदृशः किमु ॥३३॥