________________
सर्ग ६ श्लो० २८-३०] हीरसौभाग्यम्
३९३ अत्र देवगिरिनगरे ध्रुवः शाश्वतो यो वासः स्थितिर्वसन तस्य सविधान निर्माण तत्काङ्क्षति अभिलषतीत्येवंशीला । उत्प्रेक्ष्यते-स्वैर स्वेच्छया पूर्णिमा पूर्णचन्द्रा राकातिथी रात्रिरूपा वसति तिष्ठतीव । कस्मात् । क्वचित्कुत्रापि स्थाने इन्दुमणीनां चन्द्रकान्तरत्नानां मिथः परस्पर मिलन्नेकीभवन् यो बहलो निबिड उद्दयोतः प्रकाशो येषो तादृशानां निकेतानां गृहाणां कैतवाच्छलात् । 'शके स्वसंकेतनिकेतमाप्ता' इति नैषधे ॥
શ્લોકાર્થ દેવગિરિનગરમાં કોઈ કોઈ મકાનમાં જડેલા “ચન્દ્રકાન્ત મણીઓના પરસ્પર એકમેક બનેલા ગાઢ પ્રકાશના બહાનાથી ‘પૂર્ણિમા” સ્વેચ્છાથી આ નગરમાં શાશ્વત વાસ કરવાની ઈચ્છાથી રહેલી ન હોય! ર૮
अपि नीलमणीनिकेतन-च्छलभूछायमुदित्वरैः करैः। द्विषतेव विवस्वता पुरी, शरणीकृत्य युयुत्सु लक्ष्यते ॥२९॥
अपि पुनः कुत्रचित्प्रदेशे नीलमणीनिबद्धान निकेतनानां 'मन्दिराणां छल कपट यस्य । [नीलमणीनां मन्दिराणि क्वापि दृश्यन्ते । यथा नैषधे-'नृपनीलमणीगृहविषामुपधेर्यत्र भयेन भास्वतः । शरणार्थमुवास वासरेऽप्यसदावृत्युदयत्तम तमः ॥' इति ।] ता. दृशं भूच्छायमन्धकारमुदित्वरैरुच्चैरुद्यद्भिर्निर्गच्छद्भिः करैः किरणैर्हस्तैश्च । उत्प्रेक्ष्यतेद्विषता खवैरिणा विवस्वता सूर्येण सार्धम् । 'मित्रो ध्वान्तारातिरब्जांशुहस्तः' इति है. म्याम् । यथा हि । 'ध्वान्ते रविचन्द्रदीपका वैरिणो वर्ण्यन्ते' इति कविकल्पलतायाम् । ययुत्सु योद्धमिच्छु इव लक्ष्यते । अर्थाजनैयिते । दृश्यते संग्राम चिकीर्षुः तावदुच्चैःकरः स्यात् । महतः कस्यापि पार्श्व गृहीत्वा महस्विना सम संग्रामो विधीयते । अयं शा. स्त्रविधिः । अत एव किं कृत्वा पुरी देवगिरिनगरी शरणीकृत्य स्वाश्रया(यविधाय ॥ इति देवगिरिनगरम् ॥
લેકાર્થ કઈ ક ઈ પ્રદેશમાં નીલમણીઓથી બાંધેલા મંદિરોના બકાનાથી અંધકાર પિતાના શત્રુ સૂર્યની સાથે યુદ્ધ કરવાની ઈચ્છાથી આ નગરીનું શરણ કરીને રહ્યો ન હોય ! અર્થાત નીલમણીઓથી બનેલા મંદિરનો સ્વામી પ્રકાશ અંધકાર જે હતો. ઘર
नगरे नगरन्ध्रकृद्द्युतो, नितरां दिद्युतिरेऽत्र नागराः ।
मरुतां तनुगर्वखर्वता-कृतये विश्व कृता कृता इव ॥३०॥ ..अत्र देवगिरौ नगरे पुरे नागराः पौरयुवानो नितरामतिशयेन दिद्युतिरे विभान्ति स्म । किंभूताः । नगरस्य क्रौञ्चाचलस्य रन्ध्र छिद्र करोतीति नगरन्ध्रकृत्स्वामिकार्तिक स्तद्वद्दयुत्कान्तिर्येषाम् । 'पाददीधितिकरद्युतिद्युतः' इति हैम्याम् । 'सनगर नगरन्ध्रकरौजसः' इति रघौ । 'स्कन्देन बाणैः कृत्वा क्रौञ्चाचलः सच्छिद्रो विहितोऽस्तीति' तट्टीकायाम् । तथा। 'स्कन्देषुवृन्दविवरैविवरीतुकामः क्रौञ्चाचलः' इति नैषधे । स्वामिकार्तिकशरराशिकृतवि