SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ सर्ग ६ श्लो० २३-२५] हीरसौभाग्यम् ३९१ यत्र दक्षिणस्यां दिशि भूभृतोऽनेके शैलाः श्रिय शोभां बिभ्रति धारयन्ति । किंभूताः । अभ्रमाकाश कषन्त्युल्लिखन्ति घर्षयन्तीत्य_कषाणि । गगनालिङ्गीनीत्यर्थः । श. गाणि शिखराणि तेषां सङ्गो विद्यते येषाम् । उत्प्रेक्ष्यते-निजस्यात्मनो विद्वेषी शत्रुः इन्द्रस्तस्य भयेन विद्रुताः पलायिता नष्टाः सन्तः अन्तरिक्षक श्रीअन्तरिक्षनामानम् । स्वा. थे कः । जिन जगन्नाथ श्रिताः सेवमानाः कुलाचलाः किमु मन्दरहरगिरिप्रमुखाः पर्वता શ્લોકાર્થ દક્ષિણ દિશામાં ગગનચુંબી શિખરવાળા અનેક પર્વતે શોભે છે, તે જાણે, પોતાના શત્રુ ઈન્દ્રના ભયથી ત્રાસીને શ્રીઅંતરિક્ષ પાર્શ્વનાથ ભગવાનના શરણે આવેલા મેરુ, કેલાસ આદિ કુલપર્વત ન હોય ! | ૩ विपिनानि पदे पदे मुद, ददते यत्र विलासशालिनाम् ।। स्फटिकाचलमूर्धनीव य-द्विजित चैत्ररथं हिया ययौ ॥२४॥ यत्रापाच्यां दिशि विपिनानि विस्मेरद्विविधवृक्षलक्षकमनीयानि वनानि पदे पदे स्थाने स्थाने मुदं हर्ष ददते विश्राणयन्ति यच्छन्ते । केषाम् । विलासेन स्यादिभिः सम पुष्पावचयासवपानगीतनृत्यनिधुवनादिविनोदेन विविधक्रीडया शालन्ते शोभन्ते इ. त्येवंशीलाः । तरुणीसखतरुणा इत्यर्थः । तेषाम् । यैर्वनैर्विजित स्वशोभया पराभूत सच्चै. प्ररथं धनदवनम् । उत्प्रेक्ष्यते-हिया लज्जया कृत्वा स्फटिकाचलमूर्धनि कैलासशिखरशिरसि । 'रजताद्रिस्तु कैलासोऽष्टापदः स्फटिकाचलः इति हैम्याम् । ययौ गतमिव ॥ ___समर्थ મનોહર, વિકશ્વર અને પોતાની શોભાથી કુબેરના “ચત્રરથ નામના ઉદ્યાનનો પરાભવ કરનારા એવા દક્ષિણ દિશાનાં “ઉદ્યાનો' રસિકપુરુષોના ચિત્તને સ્થાને સ્થાને આહલાદ આપનારાં છે, તેથી (પોતાના પરાભવથી) શરમાઈને જાણે "ચૈત્રરથે કેલાસપર્વતના શિખર ઉપર વાસ કર્યો નહોય ! ૨૪ सरितो दिशि यत्र निम्नगे-त्यपवाद व्यपनेतुमात्मनः । स्थितवत्य उपेत्य सेवितु, किमपाचीगृहनाभिसंभवम् ॥२५॥ यत्र याम्यां दिशि हरिति सरितोऽनेका नद्यः उपेत्यागत्य स्थितवत्यः न्यवसन् । स्थिता इत्यर्थः । उत्प्रेक्ष्यते-अपाच्या दक्षिणस्यां दिशि गृह स्थान वसतिर्यस्य तादृश नाभेर्नृपात्संभव उत्पत्तिर्यस्य ऋषभदेव माणिक्यस्वामिनमथवा सोपाकरकपत्तनाधीशजीव. स्वामिनम् । आदिदेवमित्यर्थः । सेवितु स्थितवत्य इव । किं कर्तुम् । आत्मनः स्वस्य निम्न गच्छन्तीति निम्नगा नीचगामिनीत्यपवाद निन्दामपयशो वा व्यपनेतुमपाकर्तुम् ॥ साथ દક્ષિણ દિશામાં અનેક નદીઓ વહી રહી છે, તે જાણે, દક્ષિણમાં રહેલા માણિક્યરવાની અને
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy