________________
३८६
हीरसौभाग्यम् सर्ग ६ श्लो० १२-१३ मलयो मलयद्रुमेदुरः, शुशुभे यत्र सुमेरुसोदरः ।
शमनस्य विलाससानुमा-निव रन्तु निजदिङ्मृगीदृशा ॥१२॥
यत्र दक्षिणस्यां दिशि मलयो नाम पर्वतः दक्षिणाचलः शुशुभे भाति स्म । किं. भूतः । उच्चैस्तरत्वेन सुमेरोः काञ्चनाचलस्य सोदरो बन्धुः। सदृश इत्यर्थः । पुनः किंभूतः । मलयद्रुमैश्चन्दनतरुभिः मेदुरः पुष्टः । भृत इत्यर्थः । उत्प्रेक्ष्यते-शमनस्य यमस्य निजस्यात्मनो या दिग्दक्षिणा हरित्सैव मृगीदृक् हरिणेक्षणा पत्नी तया सार्ध रन्तु विविध विनोद विधातु विलाससानुमान् क्रीडापर्वत इव ॥
શ્લોકાઈ દક્ષિણ દિશામાં ચંદનના ગીચ વૃક્ષવડે સુશોભિત તેમજ ઊંચાઈમાં સુમેરુ સમાન એવો “ભલયાચલ' નામને પર્વત શોભે છે, તે જાણે પોતાની પત્ની દક્ષિણ દિશાની સાથે વિવિધ પ્રકારની ક્રીડા કરવા માટે યમરાજાને ક્રીડાપર્વત ન હોય ! તેમ શોભે છે. રા
मलयो बलिवेश्मवद् बभौ, कलयन् कुण्डलिमण्डलीरिह। विशदामृतकुण्डमण्डितो, धृतपुंनागबलाहकोत्सवः ॥१३॥
इह दक्षिणस्यां दिशि मलयो गिरिराशाचलो बलिवेश्मवन्नागलोक इव बभौ । किं कुर्वन् । कुण्डलिनां गन्धशैत्यलोभाच्चन्दनदुमान् परिरभ्य स्थितानां नागानां मण्डलीः कलयन् । चन्द्रे लाञ्छनता हिम हिमगिरौ क्षार जल सागरे, रुद्धाश्चन्दनपादपा विषधरैरम्भोरुह कण्टकैः' । तथा-'दोजीहा वंकग्गया जइ विसहरा न हुँति । ता चंदण तुह छांहडी बहुसजण निवसंति ॥' इति सूक्ते । तथा-'विषमो मलयाहिमण्डलीविषयूकारमयो मयोहितः' इति नैषधेऽपि । नागलोकोऽपि नागश्रेणीभिभृतः । पुनः किंभूतः । विशदानि निर्मलान्यच्छानि श्वेतानि च यान्यमृतानां नीराणां सुधानाम् । 'अमृत गगने हृद्ये स्वर्णतोये रसायने । कैवल्ये गोरसे यज्ञशेषे माक्षीकवर्णयोः ॥ सुधायाचितयो रत्ने चन्द्रे च' इत्यनेकार्थतिलकः । कुण्डानि दृषद्वद्धनिम्नजलस्थानानि तैर्मण्डितो भूषितः । पाताले तु नवसंख्याकानि सुधाकुण्डानि सन्तीति कविसमयः । पुनः किंभूतः । धृताः नागाः सुरपर्णिका वृक्षविशेषा येन । पक्षे-पुमान्नागो वासुकिः सर्पराजो येन । 'धूर्जटिजटाजट इव पुनागवेष्टितो वापीपरिसरः' इति चम्पूकथायाम् । पुंनागो वासुकिरिति तट्रिप्पणके । तथा बलाहकानां बकानामुत्सवः सुरतकोडागर्भप्रसवादिर्यत्र, वर्षाकाले हि बकाः क्वापि नीडान् विधाय प्रावृट् उपविशन्ति । 'पावस बक बइठा' इति लोकप्रसिद्धम् । अथ वा बलाहकानां मेघानामुत्सव उन्नमनमत्र । मेघा हि प्रायो गिरिषु सर्वदैव भवन्ति । 'शरत्प्रवासिताः सन्तः पुनस्तत्कमलाप्तये । शैलादौ वापि तिष्ठन्ति तपस्यन्त इवाम्बुदाः ॥' इति वचनात् । पक्षे बलाहको नागविशेषः । 'अथ कम्बलाश्वतरधृतराष्ट्र. बलाहकाः । इत्यादयः परे नागाः' इति हैम्याम् । तस्योत्सवो महो हर्षोल्लासः । 'बला. हकोऽम्बुदे शैले दैत्ये नागे हयान्तरे । बके च' इत्यनेकार्थतिलकः ॥