________________
हीरसौभाग्यम् [सर्ग ६ श्लो० ८-९ वसति स्म घटोद्भवो मुनि-दिशि यस्यां चिरमुज्झितान्यदिक् । किमु शम्बरवैरिविभ्रमै-युवतीभिर्युववद्विमोहितः ॥८॥
घटात्कुम्भादुद्भव उत्पत्तिर्यस्य तादृशो मुनिरगस्तितापसः यस्यां दक्षिणस्यां दिशि चिर गलितावधिकाल वरति स्म स्थितिमानजनि किम् । उज्झिता त्यक्ता अन्याः पूर्वादिकास्तिस्रो दिशो येन । उत्प्रेक्ष्यते युवतीभिर्दाक्षिणात्यतरुणीभिः शम्बरनाम्नो दैत्यस्य वैरिणो हन्तुः स्मरस्य । 'अरी शम्बरशूर्पकौ' इति हैम्याम् । विभ्रमविलासर्युववत्तरुण इव विशेषेण माहितः । मोहमत्यनुराग स्नेहातिशय वा । मोह मूर्छामविद्याम् । यथा अनेकार्थनाममालायाम्-'मोहो मूर्छाविपर्ययौ' । 'मूर्छाविद्या' । 'न मुञ्चामः कामानहह विषमो मोहमहिमा' इति तदवचूरिः । अविद्या अहं मत्यज्ञाने प्रापितः किमु नीत इव ॥
બ્લેકાર્થ પૂર્વ આદિ અન્ય દિશાઓને ત્યાગ કરીને અગસ્તિપીએ દક્ષિણ દિશામાં ચિરકાળ પર્વત વાસ કર્યો હતો, જેમ દક્ષિણાત્ય યુવતીઓ કામદેવના વિલાસથી યુવાન પુરુષોને મોહિત કરે છે, તેમ દક્ષિણ દિશાએ અગતિઋષીને વિશેષ પ્રકારે મોહિત કર્યા ન હોય ! તેથી જ જાણે દક્ષિણમાં વા .. કર્યો ન હોયપ૮
स्मरविष्टपजैत्रशस्त्रित-स्त्रितरोदीर्णविनोदविभ्रमान् । बजतीव कुतूहलीक्षितु, किमु मन्दीभवदधिरंशुमान् ॥९॥
अंशुमान् सूर्यः इह दक्षिणस्यां दिशि व्रजति । किंभूतः । मन्दीभवन्तः वीक्षणरसाद्गमने अत्वरिता जायमानास्तेजोभिः प्रतापैः रहिता वा भवन्तो जायमानाः । 'दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि' इति रघुवचनात् । अद्भ्यश्चरणाः किरणा वा । अघ्रिशब्देन किरणा अप्युच्यन्ते । यथा नैषधे-'साहस्रैरपि पङ्गुरङ्घ्रिभिरभिव्यक्तीभवन् भानुमान्' इति । किंभूतः । कुतूहल कौतुकमस्यास्तीति । अत एवोत्प्रेक्ष्यते -स्मरस्य कन्दर्पस्य विष्टपानां त्रयाणां भुवनानां तात्स्थ्यात्तद्वयपदेशान्नाकिनागनागराणां जैत्रशस्त्रिताभिर्जयनशीलप्रहरणवदाचरिताभिस्त्रितराभिः प्रधानस्त्रीभिः । 'रहः सहचरी राजन्नेतामपि स्त्रितरा क्षणम्' इति नैषधे । स्त्रितरां श्रेष्ठामिति तद्धत्तिः । 'हस्वो वा, स्त्रियां कापि तरादौ च परे ह्रस्वो वा भवति । वेणीका श्रेयसीतरा प्रेयसितरा' इति सारस्वते । तथा स्त्रितरा स्त्रीतरा इति । उदीर्णाः स्वभावेन प्रकटीकृता विनोदा हास्यक्रीडानृत्यगीतादिका विभ्रमा हावभावविलासाः । अथवा विनोदेन परस्परानन्दक्रीडाहास्येन विलासास्तानीक्षितु मोचयितु किमु व्रजति । दक्षिणदेशविचक्षणनारीति लोकप्रसिद्धिः ॥
सोम સૂર્ય દક્ષિણ દિશામાં મંદ મંદ ગતિથી ચાલે છે. (અર્થાત સૂર્યને પ્રતાપ દક્ષિણ દિશામાં મંદ હોય છે) શાથી? ત્રણે જગતને જીતનારા એવા કામદેવના, તીણ શસ્ત્રરૂપે રહેલી દક્ષિણ