SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ सर्ग ६ श्लो० ६-७ ] सौभाग्यम् ३८३ 'कूर्मकुलाचलफणिपतिविधृतापि चलति वसुधेयम्' इति सूक्तोक्तेः 'हिमालयो नाम नगाधिराजः' इति कुमारसंभवे मेरुर्वा । मेरोरपि गिरिपतित्वं यथा - 'पातालमाविशतु यातु सुरेन्द्रलोकमारोहतु क्षितिधराधिपतिं सुमेरुम् । मन्त्रौषधैः प्रहरणैश्च करोतु रक्षां य तद्भवति नात्र विचारहेतुः ॥' इति सूक्तावल्याम् । क्षमाधरत्व' तु शैलत्वात्कुलगिरित्वाद्वा । पुनः किं कुर्वन् । दधत् धारयन् । काम् । बुधत्वेन चिद्वत्तया लक्ष्मीं शोभाम् । किंवत् । मार्गवत् । यथा अभ्राणां मेघार्णा मार्ग आकाशः | 'सुराम्रोडुमपरुत्पथोऽम्बरम्' इति हैम्याम् | बुधस्य चन्द्रपुत्रस्य ग्रहविशेषस्य लक्ष्मीं श्रियं बिभर्ति । 'बुधः सौम्ये Cat' इत्यनेकार्थः । पुनः किंभूतः । भवान्तकृत्संसारोच्छेदकः । किंवत् । जलजासनवत् । यथा कमलासनो ब्रह्मा भवान्तकृन्नामास्ते । पुनः किंभूतः । व्रते चारित्रे धुर्यः पञ्चमहाव्रतभारोद्धारकधुरीणः । किंवत् । महोक्षवद्यथा वृषभो धुरंधरः स्यात् ॥ इति हीरहर्षगणेः पठनसमयगुणवत्त्वम् ॥ શ્લેકાર્થ હીર, મુનિ, મેરુની જેમ ક્ષમાને ધારણ કરનારા હતા, અર્થાત ક્ષમાશીલ હતા. વળી આકાશ જેમ બુધ નામના ગ્રહવિશેષવડે શાબે છે તેમ મુનિવર વિદ્રત્તાવડે શાભતા હતા. તેમજ બ્રહ્માની જેમ सौंसारने ७२४६४२नारा बता ( भवान्तकृत् - श्रानु नाम छे ) अने महाव्रतानी घुगने वढ्न वामां બળવાન વૃષભ સમાન શે।ભતા હતા કો तरुणी तपनात्मजन्मनो, हरिदास्ते भुवि नाम दक्षिणा । किमु कस्यचनापि कोपिनो, व्रतिनः स्वर्निपपात शापतः ॥७॥ भुवि पृथिव्यां तपनात्मजन्मनो भानुनन्दस्य यमस्य तरुणी गृहिणी हरिद्दिगास्ते । किं नाम | दक्षिणा अपाचीनाम्नेत्यर्थः । यद्यपि तरुणीशब्देन युवती कथ्यते, सामान्येन गृहिण्या अप्यभिधानं दृश्यते । यथा चम्पूकथायां नलं प्रति प्रहितकिंनरेण सायं किंन प्रत्युक्तम्- 'अजनि रजनिः किमेतत्तरणिस्तरतीव पश्चिमपयोधौ । घनतरुणि तरुणि विपिने क्वचिदस्मिन्नेव निवसामः ॥' इति दिशोऽपि स्त्रीत्वम् । 'निजमुखमितः स्मेर धत्ते हरेर्महिषी हरित् ।' तथा 'वरुणगृहिणीमाशामासादयन्तममुं रुची' इति पदद्वयमपि नैषधे । तेन इदमपि तद्वत् । उत्प्रेक्ष्यते - कस्यचनाप्यनिर्दिष्टनाम्नः कोपिनो रोषवतः व्रतिनस्तापसस्य शापतः शापवशात्स्वः स्वर्गः निपपात उच्चैः स्थानादधोभूमौ त्रुटित्वा निपतितः इति परशासनकविसमयवर्णनमात्रमेव । यथा कादम्बरीकथायां केनापि तापसेन तापसः कश्चित्त्वरितं गच्छन् शप्तः । यतस्त्व' मामवन्दित्वैव तुरगवद्गच्छसि ततस्त्व' गो भव । स तथैव जातः । तथा 'मतङ्गशापादवलेपभूलादवाप्तवानस्मि मतङ्गजत्वम्' इति रघौ । पर न जैन ं वच इति ॥ ક્લાકા પૃથ્વીને વિષે સૂર્યપુત્ર યમની પત્ની, દક્ષિણા નામની દિશા શાભે છે, તે દિશા જાણે કાઇક રાષાતુર તપસ્વીના શાપથી ભ્રષ્ટ થને પૃથ્વી ઉપર તૂટી પડેલા સ્વર્ગના એક ટુકડા ન હોય! 11ના
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy