________________
. ३८२
हीरसौभाग्यम् [सर्ग ६ श्लो० ४-६ म्रस्तवे । प्राणवल्लभस्य समुद्रस्य चलन्ती दिशि दिशि प्रसरन्ती जलानां कल्लोलानां तर गाणां परम्परा श्रेणी क्वापि न स्खलति । किमु अवार्थे ॥
કલેકાર્થ દશે દિશામાં પ્રસરતી સમુદ્રના ચંચળ તરંગોની પરંપરા કેઈપણ સ્થાને જેમ ખલના પામતી નથી તેમ શાસ્ત્રોના પારગામી હીરહર્ષમુનિનો બુદ્ધિવૈભવ કોઈ પણ સ્થાને ખલના પામતે ન હતો !
असमानमहा दिनेशव-न्मतिमांश्चित्रशिखण्डिपुत्रवत् । भटवञ्चरणोल्लसन्मना, विनयी यो रघुसूनुवद व्यभात् ॥५॥
यो हीरहर्षमुनिर्व्यभात् बभौ । किंभूतः । असमानमसाधारण महः प्रतापो यस्य, परैः परवादिभिः परपाक्षिकैः स्वपाक्षिकैर्वा असहनीयप्रतापः । किंवत् । दिनेशवत् दिवस. नायक इव । यथा भास्करः अन्यासाप्रतापो भवेत् । पुनः किंभूतः । मतिमान् कुशाग्रतीक्ष्णबुद्धिर्विद्यते यस्य । किंवत् । चित्रशिर्खाण्डपुत्रवद्यथा बृहस्पतिरद्वैतप्रशावान् वर्तते । 'जीवश्चित्रशिखण्डिजः' इति हैम्याम् । तथा 'विचित्रवाक्चिशिखण्डिनन्दनः' इति नैषधे । विचित्रवाग्विषये चित्रशिखण्डिनन्दनो बृहस्पतिरेवेति तद्वृत्तिः । पुनः किंभूतः । चरणे चारित्रे उल्लसत्प्रोल्लासेन प्रह्लादेन कलित मनश्चित्त यस्य । किंवत् । भटवत् । यथाशूरो रणे संग्रामे उल्लसत्सोत्सुकीभवत्साभिलाष वा जायमानम् । 'विग्रहमिच्छन्ति भटा, वैद्याश्च व्याधिपीडित लोकम् । मृतकबहुल च विप्राः, क्षेमसुभिक्षं च निर्ग्रन्थाः ॥ इति वचनात् । मनो यस्य । च पुनरर्थे । पुनः किंभूतः । विनयी विनयकलितः । किंवत् । रघुसूनुवल्लक्ष्मणवत् । 'विनये लक्ष्मणः' इति काव्यकल्पलतायाम् । अथ वा विशिष्टः शा. बागमप्रोक्तो नयो न्यायोऽस्त्यस्मिन्निति । किंवत् । रघुसूनुवद्रामचन्द्र इव । 'न्याये रामः' इत्यपि काव्यकल्पलतायाम् ॥
કાર્ય સૂર્યની જેમ અસાધારણ પ્રતાપશાળી, બૃહસ્પતિ સમાન સર્વોત્કૃષ્ટ બુદ્ધિવિભાવવાળા, તેમજ સૈનિકની જેમ ચારિત્રમાં અત્યંત ઉલ્લસિત ચિત્તવાળા હરહમુનિ, વિનયમાં રામચન્દ્રજીની જેમ અપૂર્વ શોભા ધારણ કરતા હતા. જેમ સૈનિકે યુદ્ધને છે, વૈદ્યો રોગીને ઈચ્છે, બ્રાહ્મણો મૃતકોને ઈચછે, અને સંત પુરુષો જેમ જગતનું કલ્યાણ અને સુકાળને ઈચ્છે છે તેમ આ હીરહમુનિ ચારિત્રધર્મની સંસ્કૃષ્ટ આરાધનાને ઈચ્છતા હતા. આપા
गिरिराज इव क्षमाधरो, बुधलक्ष्मी दधदभ्रमार्गवत् ।
जलजासनवद् भवान्तकृद् , व्रतधुर्यः स महोक्षवद बभौ ॥६॥
स हीरहर्षमुनिर्बभौ भाति स्म । किंभूतः । क्षमा शान्ति निष्कोपतां धरतीति । क इव । गिरिराज इव । यथा हिमाचलः क्षमाधरः पृथ्वीधारकः कुलाचलत्वात् । यद्यपि