________________
सर्ग ६ श्लो० २-४] हीरसौभाग्यम्
श्रुतमत्र गणीन्दुनामुना, निहित स्फूर्तिमनुत्तरां दधौ । इव शुक्तिकसंपुटान्तरे, सलिलं स्वातिमिलत्पयोमुचा।।२॥
अमुना विजयदाननाम्ना गणीन्दुना सूरिचन्द्रेण अत्र हीरहर्षमुनौ निहित स्थापितमादध्यापित सत् श्रुतं शास्त्रमनुत्तरामसाधारणी स्फूर्ति चमत्कारकारितां दधौ धत्ते स्म । किमिव । सलिलमिव । यथा स्वातिनक्षत्रेण मिलता संगच्छमानेन पयोमुचा मेघेन । शुक्तिकयोः संपुटस्यान्तर्मध्ये निहित जलमद्भुतामद्वैतमुक्ताकारतया स्फूर्ति बिभर्ति ॥
બ્લેકાર્થ સ્વાતિ નક્ષત્રના સંયોગને પ્રાપ્ત થયેલા મેઘનું જલ, શક્તિ (છીપ)ના સંપુટની મધ્યમાં રહેલું જેમ ઉજજવલ મૌક્તિક (મોતી) રૂપે બને છે (અર્થાત મેતી બની જાય છે, તેમ આચાર્ય શ્રી વિજયદાનસુરિજીવડે હીરક મુનિને અધ્યાપન કરાયેલું શાસ્ત્ર કેઈ અનેરી ફુર્તિને ધારણ કરતું હતું. કેરી
अधिगत्य ततः श्रुतं व्रति-क्षितिभर्तुर्दधिरेऽमुना श्रियः। सुरभेः 'समिरेण सौरभ, मलयोर्वीरुहकाननादिव ॥३॥
अमुना हीरहर्षमुनिना ततस्तस्माद्विजयदानाभिधानाद्रतिक्षितिभर्तुः सूरेः सकाशात् श्रुत शास्त्रमधिगत्य प्राप्य । 'अधिगत्य जगत्यधीश्वरादथ मुक्तिं पुरुषोत्तमात्ततः' इति नैषधे । श्रियः शोभा दधिरे धृताः । केनेव । समिरेणेव । यथा सुरमेर्वसन्तस्य समिरेण मलयानिलेन मलयोर्वीरुहाणां चन्दनानां काननाद्वनात्सौरभ सुगन्धितां परिमलं प्राप्य शोभा ध्रियते ॥
મલકા જેમ વસંતઋતુને પવન, મલયાચલ પર્વતના ચંદનવનમાંથી સૌરભ ધારણ કરે તો શેભે છે. તેમ હી હમુનિ આચાર્ય શ્રી વિજયદાનસૂરિજી પાસેથી શાસ્ત્રોનું અધ્યયન કરીને કોઈ અનોખી શેભાને ધારણ કરતા હતા પર
स्खलति स्म न कुत्रचिद्वचो-रचनास्यागमपारदृश्वनः । हदिनीहृदयेशितुश्चल-ज्जलकल्लोलपरम्परा किमु ॥४॥
आगमानां जैनसिद्धान्तानां पार प्रान्त दृष्टवानित्यागमपारदृश्वा तस्य । आगमपारगामिन इत्यर्थः । अस्य हीरहर्षमुनेर्वचोरचना वाक्चातुरी वचनविलासो वा कुत्रचिक्वापि स्थाने न स्खलति स्म न कुण्ठीभूता । सर्वत्राप्यस्खलितप्रचारैवासीदित्यर्थः। केव। चलज्जलकल्लोलपरम्परेव यथा ह्रदिनीनां नदीनां हृदयेशितुहृदयनायकस्य । 'हृदयेशा प्राणसमा' इत्यादिनामानि स्त्रीभोंर्भवन्ति । तथा-'हृदयनायकचक्रिजिनश्रियोः' इति ऋषभन
१-२ समिरशब्दस्य ह्रस्वमध्यस्य कोशव्याकरणाप्रसिद्धत्वेन 'सृमरेण' इति पाठयम् ।