________________
३७८
हीरसौभाग्यम् सर्ग ५ श्लो. २१४-२१६ कलभो यूथनाथेन, यद्वद्दम्यः ककुद्मता ।
हीरहर्षः सम सूरि-शक्रेण विजहार सः ॥२१४॥ . स हीरहर्षमुनिः सूरिशक्रेण श्रीविजयदानसूरीन्द्रेण साम सार्ध विजहार विहार कृतवान् । किंवत् । यद्वत् । यथा कलभो बालगजः यूथनाथेन षष्टिवर्षीयगजराजेन सम विहरति । पुनर्यद्वद्यथा दम्यो वत्सतरः पुष्टो वत्सः प्रौढवृषमेण सह विहरति । 'दम्यो वत्सतरः समौ' इति हैम्याम् । यद्वच्छब्द इवार्थे । डमरुकमणिवल्लालाघण्टान्यायेनोभयत्रापि संबध्यते ॥
જેમ બાલગજ, યૂથનાથની સાથે ચાલે અને જેમ વાછરડું પ્રૌઢ વૃષભની સાથે ચાલે, તેમ શ્રીહરિહર્વમુનિ વિજ્યદાનસૂરિની સાથે ચાલ્યા અર્થાત વિહાર કર્યો. પર૧૪
प्रीतिर्जिनेषु वृजिनेषु न तस्य जज्ञे,
योग व्यगाहत मनो न कदापि भोगम् ।। अङ्गीचकार विरतिं न रतिं कदाचि
न्नव्योऽप्यनव्य इव सोऽजनि साधुधुर्यः ॥२१५॥ स हीरहर्षनामा साधुषु यतिषु धुर्यो धुरीणः नव्योऽपि नवदीक्षितोऽपि अनव्यः पुरातन इव बहुकालीनमुनिरिवाजनि संजातः । तदेव दर्शयति-तस्य हीरहर्षमुनेः जिनेषु तीर्थकरेषु प्रीतिः स्नेहस्तत्परता, पर वृजिनेषु हार्द न जज्ञे । 'स्नेहः प्रीतिः प्रेम हार्दम् इति हैम्याम् । तस्य मनः योग यमनियमाद्यष्टाङ्गलक्षणां सर्वविरतिमङ्गीचकार । पुनः कदापि कस्मिन्नपि क्षणे रति चिन्तासक्तिम् । 'वृद्धास्विव गतप्रायासु वर्षासु रतिमकुर्वाणः' । इति चम्पूकथायाम् । रति चिन्तासक्तिमिति तट्टिपनके । अथ वा रतिमनुः राग मैथुनादिकं वा ॥
પ્લેકાર્થ આ હીરહર્ષ મુનિ નવદીક્ષિત હોવા છતાં પણ દીર્ધ પર્યાયવાળા સ્થવિર સાધુની જેમ સર્વ સાધુઓમાં અગ્રેસર બન્યા. હરિહર્ષમુનિની પ્રીતિ શ્રીજિનેશ્વરભગવંતે ઉપર જ હતી, પરંતુ કયારેય નેહી સ્વજને ઉપર હતી નહી. તેમજ તે મુનિનું મન, યમ-નિયમ આદિ આઠ અંગ સ્વરૂપ સર્વ વિરતિમાં જ આસક્ત હતું, પરંતુ ક્યારે પણ કેઈને પ્રત્યે અનુરાગી બન્યું ન હતું. ર૧પા
सूरीन्दोः संनिधौ श्रीमान् , कुमारश्रमणोऽनिशम् ।
संतानस्य नवोन्निद्र-त्पारिजात इवाबभौ ॥२१६॥
श्रीमानतिशायिशोभावान् कुमारश्रमणः हीरहर्षसाधुः अनिश निरन्तर सूरीन्दो. विजयदानसूरिचन्द्रस्य संनिधौ पार्वे बभौ । क इव । नवोनिद्रपारिजात इव । यथा