________________
सर्ग ५ श्लो० २१६-२१८] हीरसौभाग्यम्
३७९ नवीनो बाल उन्निद्रद्विकस्वरीभवन्कुसुमादिकलितो जायमानः पारिजातो विशिष्टकल्पवृक्षः संतानस्य नानो देवद्रुमस्य समीपे भाति । 'कल्पः पारिजातो मन्दारो हरिचन्दनः । संतानश्च' इति पञ्चसु कल्पतरुषु मध्ये कविसमये पारिजातस्यैव प्राधान्य दृश्यते प्रायः। यथा रघुवंशे–'तेषां महार्हासनसंस्थितानामुदारनेपथ्यभृतां स मध्ये । रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणामिव पारिजातः ॥' इति ॥
લોકાર્થ તાજાં વિકસ્વર પુષ્પોથી યુક્ત એવું પારિજાત નામનું શ્રેષ્ઠ કલ્પવૃક્ષ જેમ “સંતાન' નામના કલ્પવૃક્ષની સમીપે શોભે, તેમ કુમારશ્રમણ શ્રીહીરહર્ષમુનિ નિરંતર શ્રીવિજયદાનસૂરિની પાસે જતા હતા ૨૧૬
श्रमणधरणीभर्तुः पादारविन्दनिषेवनात् ,
प्रमुदितमना नाथीदेवीतनूजयतीश्वरः । अनुपमशमक्षीराम्भोधौ विलासरस सृजन् ,
सितगरुदिवामन्दानन्द दिनानि निनाय सः ॥२१७।। स नाथीदेव्यास्तनूजो नन्दनः स एव यतिनां मध्ये । 'यतिश्च यतिनि प्रोक्तः' इति शब्दप्रभेदे । ईश्वरो मुख्यः हीरहर्षमुनीन्द्रो दिनानि शुद्धसंयमविधिना वासरान्निनाय अतिवाहयामास । अतिक्रामति स्मेत्यर्थः । किंभूतः । श्रमणानां साधूनां भर्तुः स्वामिनो वि. जयदानसूरेः पादारविन्दनिषेवनया चरणकमलपरिचर्यया कृत्वा प्रमुदितमालादयुक्तं जात मनो यस्य । किं कुर्वन् । अनुपमो न विद्यते उपमा साम्य यस्य । असाधारण इत्यर्थः । तादृशो यः शमः शान्तरसाकलितपरिणामः स एव क्षीराम्भोधिर्दुग्धजलनिधिस्तत्रामन्दो बहुल आनन्दो यत्रैव स्यात्तथा विलासरस क्रीडास्वादम् । आखादोऽनुभवने । अथ वा विलासे रसमनुराग सृजन् कुर्वन् । 'रसः स्वादे जले वीर्य, शहरादौ द्रवे विषे । बोले रावे देहधातौ, तिक्तादौ पारदेऽपि च ॥' इत्यनेकार्थः । क इव । सितगरुदिव । यथा सितच्छदो हंसः परमानन्दः सन् क्षीरसमुद्रे विलासरस जलक्रीडारसं सृजति हंसानां सद्भावः क्षीरसमुद्रेऽपि दृश्यते । यथा स्नातस्यास्तुतौ–'हंसांसाहतपद्मरेणुकपिशक्षीरार्णवाम्भोभृतैः' इति ॥
બ્લેકાર્થ પરમાનંદને અનુભવતો હંસ જેમ ક્ષીરસમુદ્રમાં જલક્રીડાના આનંદને અનુભવે, તેમ નાથીદેવીના નંદન, સાધુઓમાં મુખ્ય, અનુપમ શાંતરસરૂપી ક્ષીરસમુદ્રમાં અર્થાત શાંતસુધારસમાં તલ્લીન, અને સાધુઓના સ્વામી શ્રી વિજયદાનસુરિજીનાં ચરણકમલની ઉપાસનાથી હર્ષિત ચિત્તવાળા હીરહર્ષમુનિના દિવસે સાધુજીવનની શુદ્ધચર્યાવડે પસાર થતા હતા. ૨૧છા - यं प्रास्त शिवाहसाधुमघवा सौभाग्यदेवीपुनः.
पुत्रं कोविदसिंहसीहविमलान्तेवासिनामग्रिमम् ।