________________
सर्ग ५ श्लो० २०७-२०९] हीरसौभाग्यम्
३७५ निजागादुत्तारयति स्मेत्यर्थः । इति किम् । तत्कारणमाह-रामणीयकस्य रमणीयताया मनोज्ञत्वस्य विधेः प्रकारस्य अवधेः सीमाया मे मम वपुषि शरीरे कृत्रिमया औपाधिक्या भूषया शोभया भूषणैर्वा । भूषाशब्देन भूषणान्यप्युच्यन्ते । उक्त तु प्राक्प्रतिपादितमास्ते । किमस्तु । न किमपीत्यर्थः । रमणीयस्य भावो रामणीयकम् । योपधावुञ् ॥
કલેકાર્થ ત્યાર પછી હીરકુમારે પોતાના શરીર ઉપર રહેલા તમામ અલંકારોનો ત્યાગ કર્યો. શા માટે ‘સુન્દરતાની સીમા રૂપ મારા શરીર ઉપર કૃત્રિમ શોભા કરવાથી શું ?' ર૦છા
पग्रहेषुशशिसंख्यमितेऽब्दे, कार्तिकस्य च तिथौ द्विकसंख्ये । यन्निरस्तभवनिःश्वसितार्चि-धू मवर्तिभिरिवाविशदास्ये ॥२०८॥ संयम विजयदानमुनीन्दो-राददे सह परैः स कुमारः । पद्मिनीप्रियतमात्प्रविकाश, पुण्डरीकमिव पङ्कजपुजैः ॥२०९॥
स हीरकुमारः परैरन्यैरमीपालकुमारप्रमुखैरपरकुमारैः सार्ध श्रीविजयदाननाम्नो मुनीन्दोः साधुसुधांशोः सूरीन्द्रात्सकाशात् संयम चारित्रमाददे जगृहे । किमिव । पुण्डरीकमिव । यथा सिताम्भोज पङ्कजपुजैरन्यकमलकलापैः सम पद्मिनीप्रियतमात्सूर्यात् सकाशात्प्रविकाश विकखरतामादत्ते । पुण्डरीकशब्दः प्राधान्यख्यापकः । 'पुरिसवरपु. ण्डरीआणम्' इति शक्रस्तववचनात् । कस्मिन् सति । षड्रसमिता संख्या, ग्रहा आदित्याद्या इदानींतनलोकप्रसिद्धा नव, इषवः स्मरस्य बाणाः पञ्च, शशी चन्द्र एकः, एषां संख्यया प्रमाणेन मिते मानीकृते अब्दे वर्षे सति । च पुनः कस्मिन् सति । कार्तिकस्य बाहुलस्य । कार्तिकमासस्येत्यर्थः । द्विकसंख्ये द्विकसंख्या प्रमाण यस्य तादृशे एतावता द्वितीयानाम्नि तिथौ । तिथिशब्दः पुंस्त्रियोः । 'प्रश्निस्तिथ्यशनीमणिशृणिः' इति लिङ्गानुशासने । तिथौ किंभूते । अविशदास्ये न विद्यते विशदमुज्ज्वलमास्य मुख प्रारम्भो वा यस्य । कृष्णद्वितीयायां प्रथमाश्चतस्रो घटिका निशा अन्धकारेण श्यामाः स्युः । उत्प्रेक्ष्यते येन हीरकुमारेण निरस्तो ध्वस्तोऽभिभूतो यो भवः संसारस्तस्य निःश्वसितानि दुःखप्राग्भारोदभूतनिःश्वासासास्तान्येवार्ची षि अत्युष्णत्वाद्बह्नयस्तेषां धूमवर्तयो धूमलेखास्ताभिः । 'उष्णीकृतमुखे इव निःश्वासानलधूमवर्तय इवोद्गीर्णास्तमोराजयः' इति चम्पूकथायाम् । एतावता विक्रमार्कात् षण्णवत्यधिके पञ्चदशशते वर्षाणामतिक्रान्ते १५९६ कातिकबहुलद्वितीयायां हीरकुमारो दीक्षां जग्राहेति तात्पर्यार्थः । संवत् १५९६ वर्षे गुर्जरमण्डलानुसारेण कार्तिकवदि देवमासानुसारेण तु मार्गशीर्षासितद्वितीयायां तिथौ हीरकुमारदीक्षा इत्युक्तम् ॥
કાર્ય જેમ કમલ બીજા કમલેની સાથે સૂર્ય પાસેથી વિકસ્વરતા પ્રાપ્ત કરે તેમ હીરકુમારે બીજા અનેક કુમારની સાથે વિક્રમ સંવત ૧૫૯૬, ગુર્જરદેશાનુસારે કાતિક વદ દ્વિતીયા-દેવમાસને અનુસાર