________________
३७४
हीरसौभाग्यम् [सर्ग ५ श्लो० २०४-२०७ ખરેખર જગતમાં પિતાની છાયાવડે સર્વે મનુષ્યોને સુખી કરનારા અને કુબેરભંડારીના આશ્રયસ્થાન ३५ सेवा 43 वृक्षा, सुमाथी मेव। ९ पु२५ आश्रय न रे ? ॥२०॥
तीर्थनाथमिव चैत्यतरोस्त-त्पादपस्य सविधे स्थितिमन्तम् । संमदेन स कुमारमहेन्द्र-स्त्रिः प्रदक्षिणयति स्म मुनीन्द्रम् ॥२०५॥
स कुमारमहेन्द्रः हीरनामा । शिशुच(श)क्रः संमदेन हर्षेण कृत्वा मुनीन्द्र श्रीविजयदानसूरि त्रिः वारत्रयं प्रदक्षिणयति स्म प्रदक्षिणीकृतवान् । किंभूत मुनीन्द्रम् । तस्य पूर्वव्यावर्णितस्य पादपस्य वटशाखिनः सविधे समीपे स्थितिरुपवेशन विद्यते यस्य । कमिव । तीर्थनाथमिव । यथा महेन्द्रः पुरंदरश्चैत्यतरोरशोकद्रुमस्य केवलज्ञानोत्पत्तिस्थानकवृक्षस्य वा पार्श्वे तिष्ठन्तं जिनेन्द्र त्रिकृत्वः त्रिवार प्रदक्षिणीकरोति । प्रभोः प्रदक्षिणात्रयं ददाति स्मेत्यर्थः ॥
પ્લેકાર્થ જેમ ઇન્દ્ર, અશકવક્ષની નીચે રહેલા શ્રી તીર્થંકરભગવંતને ત્રણ પ્રદક્ષિણા આપે, તેમ કુમારેમાં ઇન્દ્રસમાન હીરકુમારે વડવૃક્ષની નીચે રહેલા શ્રીવિજયદાનસુરિજીને ત્રણ પ્રદક્ષિણા આપી. ર૦પા
उत्ततार तुरगात्स कुमारो, बहिणादिव सुतः सुरसिन्धोः ।
श्रीगुरुं प्रयुक्तिश्च ललाट-न्यस्तहस्तनलिनस्तमनंसीत् ॥२०६।।
स हीरनामा कुमारस्तुरगादश्वादुत्ततार उत्तीर्णवान् । क इव । सुरसिन्धोः सुत इव । यथा सुरसिन्धोर्देवनद्याः गङ्गाया नन्दनः स्वामिकार्तिकः बहिणान्मयूरादुत्तरति । 'आवासवृक्षोन्मुखबहिणानि' इति रघुवंशे । उत्तीर्य च पुनस्त महावीरदेवपट्टपरम्पराया. त दीक्षादानगुरु वा श्रीगुरुं शोभाकलितविजयदानसूरिम् अनंसीत् प्रणमति स्म । किंभूतः । प्रमुदितो हृष्टवदनः । पुनः किंभूतः । ललाटे स्वभालस्थले न्यस्तौ स्थापितौ हस्तौ पाणी एव नलिने कमले यत्र ॥
બ્લેકાર્થ જેમ ગંગાને પુત્ર કાર્તિકસ્વામી મયૂરથી નીચે ઉતરે તેમ હીરકુમાર અશ્વ ઉપરથી નીચે ઉતર્યા, ઉતરીને લલાટે હસ્તકમલ સ્થાપન કરી, હર્ષ પૂર્વક દીક્ષાગુરુ શ્રીવિજયદાનસૂરીશ્વરજીને નમસ્કાર .. ॥२०॥
रामणीयकविधेरवधेर्मे, भूषया वपुषि कृत्रिमया किम् । तत्यजे निजतनोरिति सर्वाङ्गीणभूषणभरः किमनेन ॥२०७।।
अनेन हीरकुमारेण निजतनोः स्वाङ्गात् । उत्प्रेक्ष्यते इति हेतोः सर्वाण्यङ्गानि व्याप्नोति । 'पथ्यङ्गकर्मपत्रपात्र व्याप्नोति' इति सूत्रेण ख ईनादेशश्च । सर्वाङ्गीण इति सर्वाङ्गोपाझगसंबन्धी । भूषणानामाभरणानां भरः समूहस्तत्यजे त्यक्तः । सर्वानलंकारा.