________________
सर्ग ५ श्लो० २०२-२०४] हीरसौभाग्यम्
३७३ तेन वटद्रमेण । उत्प्रेक्ष्यते-वतिनेव तापसेनेव तपः अनाहारलक्षण कष्टं किमु कुर्वता अजनि जातम् । केनेच । वतिनेव । यथा तापसेन तपःकुर्वता जायते । किंभूतेन तेन वतिना च वल्कलैः वल्लीभिवृक्षविशेषग्भिश्च । 'त्वचि वल्ली चोक्तं वल्कलम्' इति हैम्याम् । कृत्वा आत्मनि स्वस्मिन् विषये भूषां शोभां कलयता दधता । पुनः किंभूतेन । कपिशां पीतरक्ताम् तथा शालिनी शोभनशीलाम् , जटानां शिफानां वृक्षमूलानां सटानां साईभस्मभरैरेकीकृतकेशानां च । 'प्रकाण्डौघजटाः शिफाः', 'जटाः सटा' इति द्वयमपि हैम्याम् । 'जटा केशविकारे मांसिमूलयोः' इत्यनेकार्थः । आलीं श्रेणों बिभ्रता धारयता। पुनः किंभूतेन । कानने वने स्थितिर्वासो विद्यते यस्य ॥
લેકાર્થ પોતે વિકલની શોભાને ધારણ કરનાર, પીત અને રક્ત એમ મિત્ર જટા વડે શોભતું અને વનમાં રહેવાથી વનવાસી, આવું આ વડનું વૃક્ષ તાપસની જેમ અનાહાર રૂપ તપ કરનારું હતું. ર૦રા
निष्कुहान्तरितविष्किरवार-स्फारतारनिनदैवटशाखी ।
यो मरुत्तरलपल्लवहस्तै-राह्वयन्निव निजान्तिक एतम् ॥२०३॥
यो वटतरुः एत कुमारम् । उत्प्रेक्ष्यते-निजान्तिके स्वसमीपे आह्वयन्नाकारयनिवास्ते । कैः । निष्कुहान्तरितानां स्वकोटरव्यवहितानां तरुस्कन्धरन्ध्रमध्यगतानां वि. किराणां विहङ्गानां वारस्य समूहस्य स्फारैः स्पष्टैः पटुभिस्तारैरत्युच्चैःकृतैनिनादैः कूजितैः । पुनः कः । मरुता पवनेन तरलाश्चञ्चला ये पल्लवाः प्रवालास्त एव हस्ताः पाणयस्तैः कृत्वा चेत्यध्याहार्यम् ॥ इति दीक्षाग्रहणयोग्यवटद्रुमवर्णनम् ॥
કલેકાર્થ આ વડનું વૃક્ષ, બખોલમાં રહેલાં પક્ષીઓના સમૂહના સ્પષ્ટ અને મંજુલ અવાજવડે પવનવડે ચપલ બનેલા પલ્લવોરૂપી હાથ વડે જાણે કુમારને પિતાની સમીપ બેલાવતું ન હોય ! પારકા
शिश्रिये विजयदानयतीन्द्रः, पूर्वमेव तदुपागमनाद्यम् ।
छाययाखिलजन खुखयन्तं, कः श्रयेन्न धनदाश्रयमत्र ॥२०४॥
विजयदाननामा यतीन्द्रः सूरिः तदुपागमनात्कुमारस्यागमनात्पूर्वमेव प्रथममेव य घटतरु शिश्रिये श्रितवान् । प्रागेव तत्रागत्य निषण्ण इत्यर्थः । युक्तोऽयमर्थः । अत्र जगति छायया आश्रयेण । 'वयं श्रीमच्छायया जीवामः' इति लोकरूदिः। प्रति कया चाखिलजन समस्तलोक सुखयन्त सुखीकुर्वन्तम् , तथा धनदानां वदान्यानां वैध. वणस्य वा आश्रय स्थानम् । 'वटो वैश्रवणाश्रयः' इति हैम्याम् । कः सुखार्थी पुमाना. श्रयेन्न सेवेत । अपि तु सर्वोऽपि जनस्तं भजेदित्यर्थः ॥
सार्थ . શ્રીવિજયદાનસૂરિજી, કુમારના આગમન પૂર્વે જ આ વડવૃક્ષની નીચે આવીને રહ્યા હતા.
प्रतिळारि.