________________
सर्ग १ श्लो० २१-२२-२३] हीरसौभाग्यम्
भरतक्षेत्रस्य वैताढ्यनाम्ना शैलेन विभज्यमानौ विभागीक्रियमाणावुभौ द्वौ विभागावंशौ भातो राजतः । किमुत्प्रेक्ष्यते । भूत्या स्वलक्ष्म्या जितौ पराभूतौ सन्तौ उपेत्य समीपमागत्य द्वीपमेवावनीप भूपं सेवमानौ भजन्तौ फणिनां नागानां नाकिनां देवानां लोको भुवनौ । पातालस्वर्गलोकावित्यर्थः । इति भरतक्षेत्रस्य द्वौ विभागौ ॥
શ્લેકાર્થ તાત્ય પર્વત વડે કરાયેલા ભરતક્ષેત્રના બે વિભાગો શોભે છે. જાણે દ્વીપની શોભા વડે પરાજિત થયેલા રવર્ગલોક અને નાગલોક ન હોય ? અને તે સમીપમાં આવીને જંબુદ્વીપરૂપી રાજાની જાણે સેવા કરતા ન હોય ? પરા
स्वच्छन्दकेलीतरली भवन्त्याः, स्रस्त शिरस्तो भुवि वर्षलक्ष्म्याः । किमुत्तरीय मरुतोत्तरङ्गी-कृतं सित यत्र बभस्ति गङ्गा ।।२२॥
यत्र भरतक्षेत्रे गङ्गा वभस्ति भासते । 'निशानभासदृशे रजनीगगनतुल्ये । तथा निशानस्तेजस्विभिर्वभस्तीति । तथा सदृश इ. कामो यस्य' इति चम्पूटिप्पनके । उत्प्रेक्ष्यते-स्वच्छन्द स्वेच्छया केली क्रीडा । 'केलीभिरुद्धर कृशोदर' इति नैषधे । तया तरलीभवन्त्याश्चञ्चलाजायमानाया वर्षलक्ष्म्या भरतक्षेत्रश्रियाः शिरस्तो मस्तकाद् भुवि भूमौ सस्त पतितमुत्तरीयमुपर्याच्छादनवस्त्र प्रावरणमिव । किंभूतम् । मरुता वायुना उत्प्रावल्येन तरङ्गयुक्त कृतम् । पुनः किंभूतम् । सितमुज्ज्वलम् ॥ इति गङ्गा ॥ इति भरतक्षेत्रम् ॥
પ્લેકાર્થ ભરતક્ષેત્રમાં ગંગાનદી શોભે છે. છાપૂર્વક ક્રીડા કરવાથી ચંચલ બનેલી ભરતક્ષેત્રની લક્ષ્મીના મસ્તક ઉપરથી ભૂમિપર પડેલું અતિ ઉજજવલ અને અતિશય પવનથી તરંગિત એવું શ્વેત ઉત્તરીય વસ્ત્ર (ઓઢાણું) જાણે ન હોય ? ૨૨
तदक्षिणायें मुरगेहगर्व-सर्वकषो गूर्जरनीवृदास्ते ।
श्रियेव रन्तुं पुरुषोत्तमेन, जगत्कृताकारि विलासवेश्म ॥२३॥ तस्य भरतक्षेत्रस्य दक्षिणदिक्पार्श्ववर्तिनि अर्धे सामिभागे खण्डे सुरगेहस्य स्वर्गस्य यो गर्वः स्ववैभवाहंकारस्तस्य सर्वंकषः सर्वापहारी गूर्जर इति नामा नीवृद्देश आस्ते वर्तते । उत्प्रेक्ष्यते-पुरुषोत्तमेन नरश्रेष्ठेन । जातावेकवचनम् । विष्णुना च साधु रन्तु क्रीडितु श्रिया लक्ष्म्या का जगत्कृता सर्वसृष्टिविधायिना विधात्रा विलासवेश्म केलिनिकेतनमकारि कारितमिव । ण्यन्तप्रयोगः ॥