________________
१४
हीरसौभाग्यम् [सर्ग १ श्लो० १९-२०-२१ पराजितद्वीपततिप्रतीष्ट-चिरत्नरत्नायुपदागणेन । द्वीपेन पृथ्वीपतिनेव वर्ष, व्यधायि धामोपनिधेरिवैतत् ॥१९॥
द्वीपेन जम्बूनाम्ना पतद्वर्ष भारत क्षेत्रमुपनिधेः । उत्प्रेक्ष्यते-न्यासस्य धाम गृह व्यधायि चक्रे । केनेव । पृथ्वीपतिनेव । यथा राक्षा निक्षेपस्य निकेतन क्रियते । किंभूतेन द्वीपेन पृथ्वीपतिना च । पराजिता निजौजोविभवैः पराभूता स्वायत्तीकृता च । 'मोजो वले प्रतापे च' इत्यनेकार्थः । या द्वीपानां ततिः श्रेणी तस्याः सकाशात्प्रतीप्टो गृहीतश्विरत्नानि चिरकालोत्पन्नानि रत्नानि मणयस्तदादिरुपदागणः प्राभृतप्रकरो येनस तेन । 'प्रतीष्टकामज्वलदस्त्रजालकम् ', तथा 'चिरत्नरत्नाचितमुच्चित' चिरात् । इति नैषधे॥ इति भरतक्षेत्रम् ॥
શ્લેકાર્થ પિતાના બલ, પ્રતાપ અને વૈભવ વડે અન્ય દીપને પરાજિત કરીને તે અન્ય દ્વીપની શ્રેણિ પાસેથી ઘણા કાળનાં રત્નો આદિ ભટણનો સમૂહ મેળવીને જંબુંદીપે રાજાની જેમ આ ભરતક્ષેત્રને જાણે પિતાનું થાપણુગ્રહ (ભંડાર) ન બનાવ્યું હોય ? ૧
चैताढयशैलो विपुलां द्विफालां, विनिर्मिमीते स्म निजेन यस्य ।
यमीभ्रमी भङ्गीविभूष्यमाणां, स्त्रैणस्य सीमन्त इव प्रवेणीम् ॥२०॥ ___ वेताढयनामा शैलः यस्य भरतक्षेत्रस्य भूमी द्विफालां द्विभागां निर्मिमीते स्म कृतवान् । 'द्विफालवद्धाश्चिकुराः शिरःस्थितम्' इति नैषधे । केन । निजेन आत्मना । 'श्रुत्वा निज भीमजया निरस्तम्' इति नैषधे । 'निजमात्मानम्' इति तद्वत्तिः। क इव । सीमन्त इव । यथा बैणस्य स्त्रीणां समूहस्य सीमन्तः केशवम प्रवेणी कबरी द्विफालां कुरुते । किंभूताम् । भूमी प्रवेणी च । यमी यमुना तस्या भ्रमी भ्रमणमावर्तकज्जलपरिभ्रान्तिस्तस्या भङ्गयो विलासाः । 'शृङ्गारभङ्गिरुचिरेऽपि' इति नैषधे । 'शृङ्गारविलासयोग्येऽपि' इति तद्वत्तिः । रचनाश्च । ताभिर्विभूष्यमाणामलंक्रियमाणाम् ॥
साथ જેમ સેંથે સ્ત્રીઓની વેણીને બે ભાગમાં વિભાજિત કરે છે તેમ વતાય પર્વત ભારતક્ષેત્રની ભૂમિને બે ભાગમાં વિભાજિત કરી! ભૂમિ અને વેણી કેવા પ્રકારની ? યમુના નદીના આવર્તેવિલાસો વડે શોભતી એવી પૃથ્વી અને યમુનાના શ્યામ જલના આવર્તીની રચના વડે શેભતી વેણી (ારા (અર્થાત પૈતાઢય પર્વત વચમાં હોવાથી ભરતક્ષેત્ર બે ભાગમાં વિભાજિત છે.)
वैताढयशैलेन विभज्यमाना-वुभौ विभागौ भरतस्य भातः । द्वीपावनीपं किमुपेत्य भूत्या, जितौ भजन्तौ फणिनाकिलोकौ ॥२१॥