________________
सौभाग्यम्
पुष्पफलानि दधानाः, शाखिनः स्मितशिखाग्रशयेषु
स्वागत' द्विजवैः किमुदीर्या - स्यातिथेयमतिथेरिह चक्रुः ॥ १९७ ||
सर्ग ५ श्लो० १९७-१९९]
इह वने शाखिनो वृक्षाः अतिथेर्निजप्राघुणकस्य अस्य कुमारस्य आतिथेयमतिथिसत्क्रियां किमु चक्रुः कुर्वन्ति स्म । किं कृत्वा । द्विजानां स्वाङ्कस्थायुकानां पक्षिणां रवैः शब्दैः स्वागत' सुखेनागत' कुशलप्रश्नादिक वा उदीर्य कथयित्वा । पृष्ट्वा वा इत्यर्थः किं कुर्वाणाः शाखिनः । स्मिता विकसिता याः शिखाः स्वशाखास्ता एवाग्रहस्ता हस्ता प्राणि अथ वा तासां शिखानामग्राणि तान्येव शयाः पाणयस्तेषु पुष्पाणि कुसुमानि पल्लवाः प्रवालाः फलानि सस्यानि दधानाः धारयन्तः ॥
३७१
શ્લેાકા
આ ઉદ્યાનનાં વૃક્ષો, વિકસ્વર એવી શાખાઓના અગ્રભાગરૂપી હાથમાં પુષ્પ, પલ્લવ અને કલેને ગ્રહણ કરીને અને પેાતાના ઉત્સંગમાં રહેલા પક્ષીઓના કિલકિલારવ અવાજ વડે પેાતાના અતિથિ એવા હીરકુમારતા અતિથિસત્કાર કરતાં હતાં. ૧૯૭ના
तत्र सस्य भर गौरव भाग्भिः, कोकिलाकणित संस्तववाग्भिः । पादपैरयमनयत वन्यैर्भाविवरिपुरुहूतधियेव ॥ १९८ ॥
तत्रोद्याने अय ं कुमारः वन्यैः काननभवैः पादपैवृक्षैः अनम्यत नमस्कृतः किंभूतैः पादपैः । सस्यानां फलानाम् । 'फल' तु सस्यम्' इति हैम्याम् । भराः समूहास्तेषां गौरव ं भार ं भजन्तीति । पुनः किंभूतैः । कोकिलानां कलकण्ठानां कणितानि कूजितानि पञ्चमालापास्तान्येव संस्तवः स्तुतिस्तद्युक्ता तद्रूपा वा वाग्येषाम् । उत्प्रेक्ष्यते - भाविनो भवि यतः आचार्यपुरंदरस्य धिया बुद्धयेव ॥ इत्युपवनम् ॥
લેાકા
ફૂલાના સમૂહથી ગૌરવ ધારણ કરતા અને કોકિલાના પંચમ સ્વરવડે સ્તુતિ કરતા એવા આ ઉદ્યાનનાં વૃક્ષેા, ભાવિ આચાર્ય પુરદરની બુદ્ધિથી હીરકુમારને નમસ્કાર કરતાં હતાં. ૫૧૯૮૫
कामनीयकमशेषममुच्या वेषयन् वटतरुं स ददर्श ।
श्री तिरस्कृतसमग्रवनस्य, छत्रमेतदिव मूर्ध्नि वनस्य ॥ १९९॥
स कुमारो वटतरु लक्षवृक्ष ददर्श पश्यति स्म । किं कुर्वन्कुमारः । अन्वेषयन् विलोकयन् । किम् । अमुष्योद्यानस्याशेष समस्तमपि कामनीयक मनोज्ञताम् । कमनीयस्य भावः कामनीयकम् । मनोज्ञादित्वाद् वुञ् । 'कामनीयकमधः कृतकामम्' इति नैषधे । उत्प्रेक्ष्यते - श्रीभिः स्वशोभाभिः तिरस्कृतानि पराजितानि समग्राणि सर्वाण्यपि वनानि नन्दनचैत्ररथादीनि काननानि येन तादृशस्यास्य वनस्य पत्तनोपविपिनस्य मूर्ध्नि मस्तके एतन्महावटरूपेण दृश्यमानं छत्रमातपवारणमिव ॥