________________
३७०
- हीरसौभाग्यम् सर्ग ५ श्लो० १९५-१९६ गच्छति मूढचेतनः, प्रियनाश हृदि शल्यमर्पितम् । स्थिरधीस्तु तदेव मन्यते, कुशलद्वारतया समुद्धृतम् ॥' इति रघुवंशे ॥
લેકાર્થ હીરકુમાર પોતાના બે નેત્રોથી ઉદ્યાનનું નિરીક્ષણ કરતા હતા. તે ઉદ્યાન પાટણના નાગરિકેની વિવિધ પ્રકારની ચેષ્ટાઓને જોવાના કુતૂહલથી પૃથ્વી ઉપર આવેલી સ્વર્ગ પુરીને જાણીને, તેની પાછળ આવેલું જાણે આ નંદનવન ન હોય !૧૯પ
शारिकाशुकशिखण्डिकपोती-पोतकेलिकलनाकमनीयम् ।
मत्तवारणविचित्रितसाल, प्राविशद् गृहमिवोपवन सः ॥१९६।।
स हीरकुमारो गृह मन्दिरमिव उपवन तत्पत्तनसमीपोद्यान प्राविशत् प्रविशति स्म । किंभूत गृहमुपवन च । महेभ्यानां गृहे क्रीडाविनोदविधानार्थ पक्षिणः स्युः । तदेव दर्शयति-शारिकाः पीतपादाः, शुकाः कीराः, शिखण्डिनो मयूराः, कपोतीनां पारावतागनानाम् । 'परिणतरविगर्भव्याकुला पौरुहूती, दिगपि घनकपोती हु कृतैः क्रन्दतीव' इति कालिदासकृतप्रभातवर्णनकाव्ये । पोताः शिशवः । अथवा कपोत्यः अत्यन्तविषयित्वात्कदाचिदपि कपोताः प्रियाणां पार्श्व न मुञ्चन्त्यतः कपोताः कपोत्यः । तथा पोताः दशवर्षीया गजबालाः । 'पञ्चवर्षों गजो बालः स्यात्पोतो दशवार्षिकः' इति हैम्याम् । पोतसाहचर्यात्तन्मातरः पितरोऽप्यागता एवेति । महेभ्यानां गृहेऽपि गजा भवन्ति । 'गजान्तलक्ष्मीः ध्वजान्तः प्रासादः' इति वचनात् । तेषां याः केलिकलनाः क्रीडाकरणानि तैः कमनीय मनोज्ञम् । पुनः किंभूतम् । मत्तवारणाः मदोद्धरसिन्धुराः । पूर्वोक्तास्तु सामान्यगजाः, एते तु गन्धसिन्धुराः, अय विशेषः । तथा विशिष्टाश्चित्रा आखुपर्णी सुभद्राभिधाना वा औषधयस्ताभिर्युक्ता जाता । अथवा चित्रिता उरगविशेषाः । 'चित्रडि' इति प्रसिद्धाः । तैः सहिताः जाता वा । वृक्षाणां कोटरेषु प्रायो भुजङ्गा भवन्ति । साला वक्षा यत्र गृहे तु मत्तालम्बाः। मत्तालम्बोपाश्रयः स्यात्प्रग्रीवो मत्तवारणः' इति हैम्याम् । 'घोडला' इति प्रसिद्धाः । तथा विविधैश्चित्रैरालेख्यैः सहिता जाताः । श्लेषे शसयोरैक्यात् । शाला चित्रशाला यत्र । 'चित्रा त्वाखुपर्णीसुभद्रयोः । गोदुम्बाप्सरसो. दन्त्यां नक्षत्रौषधिमेदयोः' इत्यनेकार्थः । राजगृहे तु सुतरां स भवेदेव । यथा पाण्डवचरित्रे दमयन्तीप्रवासे-'लीलाकुरझगकक्रीडासारिके केलिबहिणः । गृहपारावताः सद्म कीरवापीसितच्छदाः । प्रेयांसमनुगच्छन्तीमनुजानीत मां मनाक ॥' तथा द्रौपदीप्रवासे-'हंही बहिन्नहो हंस हले हरिणि हे शुक । कुशल वस्त्वसौ दैवाद्याति वः परिचालि(रि) का ॥ इत्यापृच्छय पतद्बाष्पा केलिपात्राणि सर्वतः' ॥ इति ॥
લોકાઈ સારિકા, શક, મયૂર, કપિત-પારેવા, બાલગજ આદિ પશુ પક્ષીઓના કિલકિલારવલંડ મનોહર એવા અને મદન્મત્ત ગંધહસ્તિઓ, ચિત્રા, ભુજંગો આદિ વિવિધ પ્રકારનાં ચિત્રોવાળી ચિત્રશાળાવડે શોભતા એવા ઉદ્યાનમાં હીરકુમારે પોતાના ઘરની જેમ પ્રવેશ કર્યો. ll૧૯દ્દા