________________
सर्ग ५ श्लो० १८९ - १९१]
सौभाग्यम्
३६७
1
हे राग हे अनुराग, सागरः समुद्र इव त्वमनेन कुमारेण निपीत आचान्तो निष्ठापितोऽसि । केनेव । पीततटिनीपतिनेव । यथा अगस्तिना तापसेन समुद्रो निपीतचुलुकीकृतः । ' अगस्त्योऽगस्तिः पीताब्धिः' इति हैम्याम् । पीताब्धिरित्यत्राब्धिपर्यायपरिवर्तन कृतम् । पुनर्हे दर्प अभिमान, यत्कारणात्सर्पन्नितस्ततः पर्यटन् भ्रमणों कुर्वस्त्व रङ्कवत् द्रमक इव भिक्षुकवत् खर्परकरीभव खर्पर' घटादिकपालठिक्कर' तदेव करे पाणी यस्य तादृशो भव संपद्यस्व । ठिक्कर करे कृत्वा भिक्षां मार्गयेत्यर्थः ॥
લાકા
જેમ અગસ્તિ મુનિએ સમુદ્રનુ` સંપૂર્ણ પાન કર્યું હતું, તેમ હે રાગ રૂપ સાગર, હીરકુમારે તારું સંપૂર્ણ પાન કર્યું ! હે અભિમાન, તારા પણ આ કુમારની સાથે સંગ્રામ થતાં પરાભવ થવાથી આમતેમ ભટકતા એવા તારે ભીખારીની જેમ હાથમાં ખપ્પર લઇને ભીખ માગવાની રહી' ૫૧૮૯૫
मानमाननसरोरुहनत्या, मानिनीजन ! जहीहि जहीहि ।
मोहनाहमणिनेव मनस्वी, न व्यमोद्यत यतो भवताऽयम् ॥ १९०॥
हे मानिनीजन हे रूपचातुर्यादिभिः साभिमानकामिनीलोक, त्वं लज्जावशेनाननसरोरुहाणां वदनकमलानां नत्या नम्रीकरणेन मुख नीचैः कृत्वा मान दर्पं गर्व जहीहि जहीहि । कोपनात्युक्तौ वीप्सा पुनः पुनर्भाषणं वीप्सा । त्यज त्यज । संभ्रमवशाद्वा द्वि· रुक्तिः । ' त्यज त्यजाकारणरोषणे रुषम्' इति नैषधे । यतः कारणात् मनस्वी विशिष्टमनोवा (नस्वा) न् देवतादिभिरप्यक्षोभ्यमना वा अयं कुमारो भवता त्वया न व्यमोद्यत न मोहितः नात्मवशीकृतः । केनेव । मोहनाहमणिनेव यथा मोहनकृन्नामरत्नेन जनो मोह्यते मोह प्राप्यते ॥
શ્લેાકા
હું અભિમાની સ્ત્રીએ ! રૂપચાતુર્યાદિવડે અભિમાની એવી ડે યુવતિએ, તમારા મુખકમલને નીચું કરીને અભિમાનનેા ત્યાગ કરેા, ત્યાગ કરો. કારણ કે દેવાથી પણ અક્ષ।ભ્ય મનવાળા હીરકુમાર મેાહનમંત્ર જેવા તમારાવડે માહિત થયા નહીં ! અર્થાત્ તમારે વશ થયા નહી. ।।૧૯૦ના
स्वर्णजालकविमानगतानां, सुभ्रुवां भुव इवाप्सरसां सः ।
आननामृत रुचीभ्य उदीता-स - स्ताः सुधा इव कथाः पिबति स्म ॥१९१॥
स कुमारः सुभ्रुवां पत्तनपुरंध्रीणामाननानि वदनानि तान्येवामृतरुच्यः चन्द्राः । aatशब्दो दीर्घोsस्ति । 'रुच्यो रुचीभिर्जितकाञ्चनाभिः' इति नैषधे । तेभ्य उदीता उद्गता । 'उदीतमातङ्कितवानशङ्कितः' इत्यपि नैषधे । ईङ गतौ दीर्घईकारो धातुः । ताः पूर्वोक्ताः कथा वार्ताः । 'त्वत्संकथापि जगतां दुरितानि हन्ति' इति भक्तामरस्तवे । 'संकथा वार्ता' इति तद्वृत्तिः । पिबति स्म सादर शृणोति स्म । उत्प्रेक्ष्यते सुधा इव । यथा कश्चिद्देवश्चन्द्रादितां सुधां पिबति । 'विरहिवर्गवधव्यसनाकुलं कलय पापमशेष