SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ सर्ग ५ श्लो० १८४-१८६] हीरसौभाग्यम् इमा अप्सरसः । इयमप्सराः' इत्यादि लिङ्गानुशासने च । तस्य । विप्रयोगेण विरहेण जनितमुत्पादित यदान्तरमन्तर्मनसि भवमन्तरङ्गमतिशायि इत्यर्थः । दुःखं तस्मात् । 'प्रियावियोगज्वलतादिवैलाम्' इति नैषधे । पुरुरवस उर्वशीवियोगः । तथा नलवर्णने'करोषि लज्जां गुरुमौलिमैलदसौ हठश्रीहरणादुदस्तौ' इत्यपि नैषधे ॥ साथ વળી પિતાની પ્રિયતમા ઉર્વશીના વિયોગથી અત્યંત દુઃખી બનેલા ઇન્ટે, પોતાના પૂર્વ શરીરને ત્યાગ કરીને આ હીરકુમારરૂપે જાણે બીજા શરીરને ધારણ કર્યું ન હોય ! ૧૮૪ दस्रयोः किमयमन्यतमोऽस्मि-भागतस्त्रिदिवतः क्षितिपीठे । निष्कलङ्क इव विष्णुपदस्यो-पास्तिभिः कुमुदिनीदयितो वा ॥१८५॥ दस्रयोरश्विनीपुत्रयोर्मध्ये । उत्प्रेक्ष्यते-अयं हीरकुमाररूपः अन्यतमः एकः कश्चित्रिदिवतो देवलोकादस्मिन् क्षितिपीठे पत्तनलक्षणे भूमण्डले आगतः किं समायात इव । अथ वा विष्णुपदस्य पुरुषोत्तमपादस्य उपास्तिभिः सेवाभिः कृत्वा निर्गतः कलङ्को लाञ्छनमपवादो वा यस्मात्तादृशः । उत्प्रेक्ष्यते-कुमुदिनीदयितः कैरविणीप्राणप्रियश्चन्द्रो वा क्षिप्तौ पत्तनपृथिव्यां समागतः ॥ इति कुमाररूपदर्शनादिविचारः ॥ सार्थ બે અશ્વિનીપુત્રોમાંથી એક અશ્વિની પુત્ર સ્વર્ગમાંથી આ પાટણની ભૂમિ ઉપર આવ્યા ન હેય ! અથવા તો વિષ્ણુના ચરણની ઉપાસના કરવાથી કલંકરહિત બનેલે ચંદ્ર જાણે પાટણભૂમિ ઉપર આવેલ ન હોય તેમ હીરકુમાર શોભતા હતા. ૧૮પા माद्यसि स्मर! जगज्जयिनीभिर्हेतिभिः किमु हताश ! वशाभिः । संश्रिते हि चरितश्रियमस्मि-स्त्वन्मदोऽयमवकेशिवदासीत् ॥१८६॥ हे हताश, मूलादेव विगता उच्छिन्ना आशा वान्छा यस्य ईदृशः हे स्मर कन्दर्प, जगतां त्रयाणां भुवनानाम् । 'तात्स्थ्यात्तद्वयपदेशः' इति न्यायानाकिनागनागराणां त्रिजगज्जनानां जयिनीभिर्जयनशीलामिवंशीकारिकाभिः वशाभिस्तरुणीभिरेव हेतिभिः स्वामोघप्रहरणभूताभिः कृत्वा किं कथं माद्यसि मदमाकलयसि मत्तो भवसि । हि यस्मात्कारणात् अस्मि. न सांसारिकविषयविमुखे हीरकुमारे चरितश्रियं चारित्रलक्ष्मी संश्रिते सति अयं सर्वजगज्जनविदितः प्रत्यक्षलक्ष्यस्त्वन्मदः यदहं युवतीरूपामोघशक्तिभिः कृत्वा हरिहरेन्द्रचतुराननादिकान् सर्वान् स्ववशीकरोमि इति तवाभिमानः अवकेशिवनिष्फलतरुरिव आसीत् फलवन्ध्यो बभूव ॥ શ્લેકાર્થ આશાઓના નિર્મુલ ઉપેદવાળા હે હતાશ કામદેવ ! ત્રણે જગત પર વિજય મેળવનારા તારા આ સ્ત્રીઓ પી શસ્ત્રોથી તું શા માટે મદેન્મત્ત થયો છે? તું જે, સાંસારિક સુખોથી પરમુખ
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy