________________
३६०
हीरसौभाग्यम् सर्ग ५ श्लो० १७३-१७५ अन्ययार्धरचितात्मकलापा-पातिमौक्तिकभरै रभसेन । सृज्यते स्म विधये किमु लाजोत्-क्षेपणा वरयितुर्बतलक्ष्भ्याः ॥१७३॥
अन्यया अपरया कयाचित्तरललोचनया रभसेन कुमारेक्षणोत्सुकभावेन अर्धरचि तः सामिप्रोतो य आत्मकलापः स्वस्य मणिमौक्तिककाञ्चनमयमेखला तत्सकाशादा सामस्त्येन पतन्तीत्येवंशीलानि निपातुकानि यानि मौक्तिकानि मुक्ताफलानि तेषां भरैः स. मूहैः कृत्वा व्रतलक्ष्म्याश्चारित्रश्रियाः वरयितुः परिणेतुः कुमारस्य विधये आचारार्थ लाजोत्क्षेपणा अक्षतैः संवर्धन मौक्तिकैर्वर्धापनमित्यर्थः । किमु सृज्यते क्रियते । परिणेता हि मङ्गलार्थ सधववधूभिर्लाजैरक्षतैमौक्तिकैर्वा वर्धाप्यते इति विधिः ॥
કલેકાર્થ કુમારને જોવાની ઉત્સુક્તાથી ત્વરિત ગતિએ ચાલતી કેઈ ચપલનયના સ્ત્રી, અડધી પરોવેલી મણી, મોતી અને સુવર્ણની બનેલી મેખલામાંથી ચારે બાજુ ખરી પડતાં મોતીઓના સમૂથી ચારિત્ર લક્ષ્મીને પરણવા જતા એવા હીરકુમારને જાણે અક્ષતવડે વિધિપૂર્વક વધામણાં કરતી ન હોય ૧૭૩ છે
काचिदर्भकमपास्य धयन्तं, यात्यवेक्षितुममु स्वगवाक्षम् ।
वेश्मनि स्तननिपातिपयोभि-र्जाह्नवीं जनयतीव नवीनाम् ॥१७४॥
काचिदन्या युवती वेश्मनि निजमन्दिरे पयोधरकुम्भयोनिष्पतनशीलैरविरलनिर्गलद्भिः पयोभिर्दुग्धधाराभिः । उत्प्रेक्ष्यते-नवीनां नूतनां जाह्नवीं गङ्गां जनयति उत्पादयतीव । करोतीवेति यावत् । किं कुर्वन्ती । अमु हीरकुमारमवेक्षितुं विलोकयितुं स्वगवाक्ष निजनिकेतनसंबन्धिजालकं प्रति यान्ती गच्छन्ती । किं कृत्वा धयन्तं स्वपयोधरपयः पिबन्तमर्भकं निजनन्दनमपास्य त्यक्त्वा रुदन्तमेव विहायेत्यर्थः ॥
ઘરમાં પિતાના પુત્રને સ્તનપાન કરાવતી કોઈક સ્ત્રી, હીરકુમારને જોવા માટે સ્તનપાન કરતા બાલકને છોડીને દેડતી ઘરના ગવાક્ષમાં જતી હતી ત્યારે તેના સ્તનમાંથી વહી રહેલી દૂધની ધારાવડે જાણે પોતાના ઘરમાં નવી ગંગા સર્જતી ન હોય ! ૧૭૪ છે
प्राप्तरूपविभवं वहते यः, स्यात् किमत्र स जडैरनुपङ्गी ।
अर्धधौतमितरा स्वमितीवोत्-कण्ठिता तरलदृक् क्रममौज्झत् ॥१७५।।
उत्कण्ठिता कुमारदर्शनोत्सुकितचेता इतरा अपरा तरलदृक् चपललोचना । उ. प्रेक्ष्यते इति हेतोः स्वमात्मीय क्रम चरणमर्धधौत सामिप्रक्षालितमौज्झजहाति स्म त्यक्तवती । इति किम् । हेतुमाह-यः पुमान् प्राप्तरूपविभवमधिगतसम्यग्रूपत्वेन शोभा पण्डितत्वेन वा संपदम् । 'विद्वान्सुधीकविविचक्षणलब्धवर्णा शप्राप्तरूपकृतिकृष्टयभिरूपधीगः' इति हैम्याम् । वहते धारयति । अत्र जगति स जनः जडैः । डलयोरैक्यात् ।