________________
सर्ग ५ श्लो० १६५-१६७] हीरसौभाग्यम्
त कुमार दिक्षुष्टुमिच्छुस्तद्दिश्चः । 'तावदेव ऋषिरिन्द्रदिदृक्षुर्नारदस्त्रिदशधाम जगाम' इति नैषधे । अपरा पूर्वोक्ताभ्यः अन्या काचित्कामिनी अञ्जनयष्टया कज्जलशलाकया कृत्वा सव्य वाम नयनम् । 'वाम शरीरेऽग सव्यमपसव्यं तु दक्षिणम्' इति हेम्याम् । चक्षुः आनञ्ज । तदन्यत्तस्मात्सव्यादन्यदपरमपसव्यं तु दक्षिण, नेति निषेधे । राभस्यानानक्ति स्म । 'अजू व्यक्तिम्रक्षणकान्तिगतिषु' रुधादिर्धातुः। तेनानक्तीति रूपम् । परोक्षायामानजेति । उत्प्रेक्ष्यते-इति विचिन्त्य वितl । इति किम् । 'यः वामतां सव्यत्वमथ च प्रतिकूलभाव भजति आश्रयति तदानने तस्य वदने एव निश्चित शि. तिमा श्यामतैव स्यात्' इति ॥
શ્લોકાર્ધ કુમારને જોવાની ઈચ્છાથી કઈક સ્ત્રીએ અંજનની શલાકાથી ડાબા નેત્રને જ આવું હતું ! દક્ષિણ નેત્રને આવું ન હતું. જે કોઈ બીજા પ્રત્યે પ્રતિકૂલ ભાવને ધારણ કરે છે તેના જ મુખમાં કપામતા આવે છે. આ પ્રમાણે વિચારીને જ જાણે ડાબા નેત્રમાં જ અંજન કર્યું ન હયli૧૫
काचनातिरभसान्मृगनाभी-वारिणा व्यलिखदेककपोलम् । मन्मुखं जितशशी श्रयतेऽसौ, गण्डमूर्तिरिति किं व विवक्षुः ॥१६६।।
काचन मृगाक्षी मृगस्याक्षिणी इवाक्षिणी यस्याः सा मृगाक्षी। 'वैयधिकरण्ये बहुव्रीही मध्यमपदलोपश्च' इति सूत्रेण एकाक्षिशब्दलोपः । सूत्रोदाहरण यथा-कुमुदस्य गन्ध इव गन्धो यस्याः सा कुमुदगन्धिः । अत्रैकगन्धशब्दलोपः इति सारस्वते । हरिणनयना अतिरभसात्कुमारविलोकनस्यौत्सुक्यान्मृगनाभीवारिणा कस्तूरिकाद्रवेण कृत्वा एक कपोल निजगण्डस्थल व्यलिखत् । पत्रवल्लीकलित कृतवती । चित्रयति स्मेत्यर्थः । गौरे हि कपोलमण्डले मृगनाभिमण्डनमतीव शोभते । उत्प्रेक्ष्यते-इति किं विवक्षुर्लोकानां पुरस्तादमुना प्रकारेण वक्तुमिच्छुरिव । इति किम् । यदसौ गण्डमूर्तिः कपोलकायः जितः स्वशोभातिशयेनाभिभूतः शशी चन्द्रः मन्मुख मम वदन श्रयते सेवत इति ॥
साथ કઈક મૃગનયના સ્ત્રીએ કુમારને જોવાની ઉત્સુકતાથી કસ્તૂરીના પ્રવાહીરસથી એક બાજુના ગાલ ઉપર પત્રાવલી કરી હતી. તે જાણે લકેની આગળ આ પ્રમાણે કહેવા ઈચ્છતી ન હોય કે “જુઓ, भा२। भुमनी शमाथी परामर पाभेसो य पोस३पे भा२भुम ५२ ॥ २यो छे' ! ॥18॥
तद्विभावनरसव्यवसाया, नागवल्लिदलविभ्रमतोऽन्या । कापि केलिकमल निजवक्त्र-स्पर्धयेव कवलीकुरुते स्म ॥१६७।।
अन्या कापि कान्ता नागवल्लयास्ताम्बूलीलताया दलानां पत्राणां विभ्रमतो भ्रान्तेः। बुद्धरित्यर्थः । 'कर्णान्तविभ्रमभ्रान्तकृष्णार्जुनविलोचना' इति चम्पूकथायाम् । विभ्रमेण भ्रान्तेति तट्टिपनके । केलिकमल क्रीडापन कवलीकुरुते स्म । खादति स्मेत्यर्थः । किंभूता कापि । तस्य कुमारस्य यद्विभावन विलोकन तस्य रसो रागः स एव