________________
सर्ग५ श्लो० १६०-१६२] डीरसौभाग्यम्
कापि कामिनी स्रस्तमर्थान्मस्तकात्पतितमपि माल्य पुष्पदाम मूर्ध्नि स्वशिरसि नाधृत न धृतवती नारोपयति स्म । किंभूता । वीक्षणस्यार्थात्कुमारालोकनस्य रसेन रागेण त्वरमाणा शीघ्र वजन्ती भवन्ती वा । उत्प्रेक्ष्यते-निजस्यात्मीयस्यात्मनो वा यदोको वशारूप मन्दिर तत्र स्थायिना वसनशीलेन । तथा येन कुमारेण जितेन मदनेन कामेन उज्झित त्यक्तमस्त्र प्रहरणमिव अवेत्य ज्ञात्वा ॥
લોકાઈ કુમારને જવાના રસમાં સત્વર ચાલી જતી એવી કોઈ સ્ત્રીએ મસ્તક ઉપરથી સરી પડેલી ફૂલની વેણી ફરીથી મસ્તક ઉપર ધારણ કરી નહીં. તે જાણે પિતાના ઘરમાં નિરંતર રહેવાવાળા સ્ત્રીરૂપી કામદેવ, કુમારથી પોતાને પરાભવ થયેલે જાણીને જાણે પોતાના શસ્ત્રોનો ત્યાગ કર્યો ન हाय ! ॥१०॥
हंसपादभरितार्धमहासीत् , केशवम तमवेक्षितुमन्या ।
पूर्णरागिणमिह प्रविधातु, श्यामलाशयमलंभवतात् कः ॥१६१॥
अन्या कापि खञ्जननयना त कुमारमवेक्षितुमर्थादुत्सुका सती हंसपादेन सिन्दूरेण भरित पूरितमधं सामिभागो यस्य तादृश केशवम सीमन्तमहासीत्तत्याज मुक्तवती । युक्तोऽयमर्थः । इह जगति श्यामलाशय मलिनमानस पिशुनम् । 'दयासमुद्रे स तदाशयेऽतिथीचकार कारुण्यरसापगा गिरः' इति नैषधे । आशये मनसीति तद्वत्तिः । पूर्णो रागोऽस्त्यस्मिन्वा तादृशमतिशायि रागरगत्तरङ्गित कर्तुम् । कः पुमानलभवतात् समर्थो भवतु । अपि तु न कोऽपीत्यर्थः ॥
લેકાર્થ કુમારને જોવામાં ઉતિ થયેલી કોઈ સ્ત્રી સિંદૂરવડે અધું પૂરાયેલા એવા સેવાને ત્યાગ કરતી હતી. ખરેખર આ જગતમાં કાળા આશયવાળા દર્શન પુરુષને પૂર્ણરાગી કરવા માટે કયો પુરુષ સમર્થ થઈ શકે ? અર્થાત કઈ પણ નહીં. આ વાતને સંગત કરવા માટે જ જાણે શ્યામ કેશ વચ્ચે અર્ધભાગ સિંદૂરથી રોગયુક્ત કર્યો. ભર્યો ન હેય ! untu
भाति मुक्तमलिके रभसेना-ऽप्यन्ययार्धकृतचन्दनचित्रम् । स्पर्धिजित्वरकलां शिशुसोमो-ऽध्येतुमागत इवैष मुखाब्ञात् ॥१६२॥
अपि पुनरन्यया अपरया कयापि कामिन्या अलिके स्वललाटपदे अर्धकृत सामिल रचित चन्दनस्य श्रीखण्डस्य तिलक रभसेनौत्सुक्येन मुक्तं त्यक्तं । ललाटे अर्धकृतमेव तिलकममोचि इत्यर्थः । उत्प्रेक्ष्यते-एषोऽर्धतिलकरूपः शिशुसोमो बालचन्द्रः मुखाब्जाधुवतीवदनकमलात्स्पर्धिनां स्वशोभाविद्वेषिणां जित्वरी जयनशीला कलां चातुरीमध्येतु पठितुमभ्यसितुमागतः समेत इव ॥