SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ सर्ग ५ श्लो० १५५-१५७] हीरसौभाग्यम् ३५३ रोदसी द्यावापृथिव्यौ शब्दाद्वैतवादकलिते न विद्यते द्वैतो द्वितीयो वादो वदन कथन यत्र स शब्दानामद्वैतवादः शब्दाद्वैतवादस्तेन युक्ते इव जाते इव । केवलम् शब्दमये इव संपन्ने । कैः हयगणस्य वाजिवजस्य हेषितhषारवैः । 'हेषा हेषा तुरगाणाम्' इति हैम्याम् । च पुनः कैः । गजानां हस्तिनां गर्जितैः गर्जारवैः च पुनः रथानां शताङ्गानां चीत्कृतिभिः चीत्काररवैः । अपि पुनर्जनरवैर्लोककोलाहलैः॥ કાર્ય અશ્વોના હેવારવથી, હાથીઓની ગર્જનાઓથી, ના ચમત્કારથી અને જનસમુદાયના કલાહલથી આકાશ-પૃથ્વી શબ્દાદ્વૈતની જેમ થઈ ગયાં. ૧૫પા रेणुभिः समुदडीयत रङ्ग-द्वाजिवारणरथाभ्युदिताभिः । दिक्पतीन्निगदितुं महमत्रा-भूतभाविनमिवोत्मुकिताभिः ॥१५६।। रङ्गन्तस्त्वरितमुपर्युपरि चलन्तो वाजिनो बहुविधाश्वा वारणाः शृङ्गारितगजा रथाः पुरुषस्त्रीभृतस्यन्दनाः तेभ्योऽभ्युदिताभिरुच्छ्रिताभिः रेणुभिधूं लीभिः समुदडीयत उड्डीतम् । 'उदडीयत वैकृतात्करग्रहजास्य विकखरखरैः' इति नैषधे । 'कटाही षष्ठिरेण्विषु' इति लिङ्गानुशासने रेणुशब्दस्त्रिषु लिगेषु प्रोक्तस्तेनात्र स्त्रीलिङ्गो विवक्षितः। उ. प्रेक्ष्यते-दिक्पतीनिन्द्रादिलोकपालान् अत्र जगति अभूत न कदाचिदपि पूर्व संजातम् , तथा न भाविनमागामिकाले कदाचिदपि न भविष्यन्तम् , भूतश्चासौ भावी च भूतभावी, न भूतभावी अभूतभावी, तं महमर्थात्तत्कुमारदीक्षामहोत्सव निगदितुमुत्सुकिताभिरिवो. त्कण्ठिताभिरिव ॥ કલેકાઈ જલદી જલ્દી અને ઉપરાઉપરિ ચાલતા અશ્વોથી, શણગારેલા હાથીઓથી અને સ્ત્રી-પુરુ થી ભરેલા રવડે ઉછળતી ધૂળથી આકાશ વ્યાપ્ત બન્યું. (બની ગયું) તે જાણે પૂર્વે નહી થયેલા, વર્તમાનમાં નહીં થતા અને ભવિષ્યમાં થશે નહીં એવા અભૂતપૂર્વ કુમારના દીક્ષા મહત્સવને, ઈન્દ્રાદિ લેકપલને કહેવા માટે જાણે ધૂળ ઉત્સુક બની ગઈ ન હેય ! ૧૫૬ तद्गजादिभरभारमसह्य, स्वेन वीक्ष्य निरपेक्षमहीन्द्रः । याचितेन जलजन्मभुवेवा-चीकरत्कुलगिरीन् स्वसहायान् ॥१५७॥ अहीन्द्रो नागराजः याचितेन भूमीभारधारणसंभागिनमर्थितेन जलजन्मभुवा वि. धात्रा का कुलगिरीन् भूभरधारिणोऽष्टौ मन्दरकैलाशहिमाचलादिकान् कुलाचलानचीकरत्कारयामास । 'यद्यपि कूर्मकुलाचलफणिपतिविधृतापि चलति वसुधेयम् । प्रतिपन्नमचलमनसां न चलति पुंसां युगान्तेऽपि ॥' इति सूक्ते । उत्प्रेक्ष्यते-स्वस्यात्मनो भूभारोद्धरणसहायानिव कारयति स्म । किं कृत्वा । तद्गजादीति । तस्मिन् कुमारसंयममहोत्सवसमये समानीतगजवाजिरथजनवजभवमुत्पन्न भार विविध स्वेनात्मना निर्गता अपेक्षा
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy