________________
३५२
हीरसौभाग्यम् [सर्ग ५ श्लो० १५२-१५५
શ્લોકાર્થ કુમારની સમક્ષ અપ્સરાઓ સમાન પણ્યાંગનાઓ વિવિધ પ્રકારનાં નૃત્ય કરતી હતી. તેમજ વિદથકે દરેક બજારમાં પરસ્પર તલવારબાજી કરતા સત્યયુદ્ધની જેમ મિધ્યાયુદ્ધ કરતા હતા. પરા
दुन्दुभिर्ध्वनितिभिर्जयशब्द, तस्य बन्दिवदुदीरयतीव । तद्गुणानिव मुदा निगदन्ती, दंध्वनीति मधुरापि नु भेरी ॥१५३॥
दुन्दुभिर्मदनभेरी निस्वानो वा ध्वनितिभिर्भाङ्काररावैस्तस्य कुमारस्य जयशब्दः जयजयरावमुदीरयति प्रकटीकरोति इव वदतीव । किंवत् । बन्दिवत् । यथा मङ्गलपाठकः जयजयेति शब्दमुदीरयति । अपि पुनर्भेरी वाद्यविशेषो दंध्वनीति अतिशयेन शब्दा. यते । किंभूता । मधुरा श्रवणसुखकारिरावा । उत्प्रेक्ष्यते-मुदा हर्षेण तस्य कुमारस्य गुणान् धैर्योदार्यगाम्भीर्यवैराग्यशमदमादिकान्निगदन्ती कथयन्तीव दध्वनीति ॥ इति दीक्षाग्रहणप्रस्थानसमये कुमारपुरो गीतनृत्यवादित्रादिकथनम् ॥ .
साथ દુંદુભિના અવાજથી કુમારને જાણે મંગલપાકની જેમ યજ્યારવ કરાતો ન હોય ! અને બેરીના મધુર અને ઘેરા અવાજથી જાણે કુમારના વૈર્ય, ઔદાર્ય આદિ ગુણોનું કથન કરાતું ન હેય ! ૧૫૩
क्षात्रियैरिव सुतैर्युवराजो-ऽलंकृतैः परिवृतोऽन्यकुमारैः । प्रस्थितिं पथि चकार कुमारो-ऽनल्पकल्पितमहेषु सगोत्रैः ॥१५४॥
हीरकुमारः सगोत्रैः स्वजनैरनल्पा अतिशायिनो बहवो वा कल्पिता विरचिता ये महा उत्सवास्तेषु सत्सु पथि मार्गे प्रस्थितिं प्रस्थान चकार । प्रचचालेत्यर्थः । किंभूतः। परिवृतः सहितः । कैः । अन्यैः दीक्षाग्रहणोत्सुकीभूतैरपरैः कुमारैः । किंभूतैः । अलंकृतैमणिस्वर्णादिभरणगणभूषितैः । क इव । युवराज इव । यथा क्षात्रियैः क्षत्रियसंबन्धिभिः सुतैनन्दनैः परिवृतो युवराजः पथि प्रतिष्ठते । किंभूतो युवराजः । स स्वपितुः समग्रराज्यभारधुरंधरः। क्षात्रियैः सुतैः किंभूतैः । गां पृथ्वी क्षत्रियत्वेन त्रायन्ते सम्यक्तया रक्षन्तीति गोत्रास्तैः । केषु सत्सु प्रस्थानमङ्गलादिकादभ्रनिर्मितोत्सवेषु ॥
दार्थ જેમ યુવરાજ પૃથ્વીનું રક્ષણ કરનારા ક્ષત્રિયોની સાથે પ્રયાણ કરે તેમ વજનવડે કરાયેલા મહોત્સવપૂર્વક હીરકુમારે બીજા પણ દીક્ષાર્થીઓની સાથે માર્ગ ઉપર પ્રયાણ કર્યું. ૧૫૪
हेषितैर्हयगणस्य गजानां, गर्जितैश्च रथचीत्कृतिभिश्च । रोदसी जनरवैरपि शब्दा-द्वैतवादकलिते इव जाते ॥१५५॥