________________
सर्ग ५ श्लो० १५०-१५२] हीरसौभाग्यम् नमिव । पुनर्वैणिकानां वीणावादकानां पङ्क्तिः श्रेणिः समदात् हर्षात् त हीरकुमारमुपवीणयति स्म वीणया गायति स्म । 'उपवीणयितु ययौ रवेरुदयावृत्तिपथेन नारदः' इति रघौ । किमिव । किंनरालिरिव यथा किंपुरुषमालिका वीणया कृत्वा गायति गान कुरुते।
બ્લેકાર્થ કેટલાક ભરીને વગાડનારા મનુષ્યો ભરીને ભાંકાર ધાનિ કરતા હતા. તે જાણે કુમારના યશને પડહ વગાડતા ન હાય ! અર્થાત યશને જાહેર કરતા ન હોય ! વળી કેટલાક વીણાવાદકો અત્યંત હર્ષપૂર્વક કુમારની આગળ શ્રેણીબદ્ધ વીણા વગાડતા હતા; તે જાણે કિન્નરોને સમુદાય વીણાવાદન કરતો ન હોય ! એમ લાગતું હતું .૧૫ના
साङ्गजे प्रबलमोहमहीन्द्रे, प्रापिते पितृपतेरतिथित्वम् । यस्य चञ्चुपुटचञ्चुररावा, मङ्गलध्वनितमाः किमुदीर्णाः ॥१५१॥
चञ्चुपुटास्तालाः कांस्यतालाः वाद्यविशेषास्तेषां चञ्चुराः मनोज्ञा रावाः शब्दा उदीर्णाः प्रकटीकृताः । ताला वादिता इत्यर्थः । अर्थान्मार्गे तालवादकैः । उत्प्रेक्ष्यतेयस्य कुमारस्य मङ्गलध्वनितमाः मङ्गलशब्दा इवोदीर्णाः । कस्मिन्सति । सहागजेन स्मरेण पुत्रेण च वर्तते यस्तादृशे मोहनामनि महीन्द्रे राजनि पितृपतेर्यमस्य अतिथित्वं प्राघुणत्व प्रापिते नीते सति । हते इत्यर्थः । 'यमः कृतान्तः पितृदक्षिणाशाप्रेतात्पतिः' इति हैम्याम् ॥
શ્લોકાર્થ કેટલાક માણસો કાંસીજોડાના મનોહર અવાજને પ્રગટ કરતા હતા. તે જાણે કામદેવરૂપ પુત્ર સહિત મહારાજાનું. યમરાજના આગમનથી અર્થાત મૃત્યુ થવાથી, કુમારના માટે મંગલમય શબ્દ પ્રગટ કરતા હોય તેમ જણાતું હતું. ૧૫૧
ताण्डवं व्यरचि वारवधूभि-स्तत्पुरः किमु सुपर्ववधूभिः । तथ्यवत्पथि मिथः पृथु मिथ्या-युद्ध मुद्धतनरैर्निरमायि ॥१५२॥
तस्य कुमारस्य पुरः पुरस्ताद्वारवधूभिः पणाङ्गनारूपपात्रैस्ताण्डव नृत्य व्यरचि विचित कृतम् । उत्प्रेक्ष्यते-सुपर्ववधूमिः अप्सरोभिरिव । 'स्वःस्वर्गिवध्वोऽप्सरसः' इति हैम्याम् । पुनरुद्धतनरैरुत्कटपुरुषैः पथि मार्गे मिथः परस्पर पृथु बहु यथा स्यात्तथा मिथ्यायुद्ध मृथा(षा)संग्रामो निरमायि निर्मितम् । विवाहादिमहोत्सवेषु दाक्षिणात्या नरः पुरस्तात्प्रतिचतुष्पथ खड्गपाणयः परस्पर मिथ्यायुद्ध कुर्वन्तीति सौराष्ट्रमण्डलादौ दृश्यते । 'ततः प्रतीच्छ प्रसरेति भाषिणी परस्परोल्लासितशल्यपल्लवे । मृषामृध सादिबले कुतूहलानलस्य नासीरगते वितेनतुः ॥' इति नैषधे । किंवत् । तथ्यवत् । यथा उद्धताः खड्गपाणयः पुरुषाः सत्य युद्ध विदधते ॥