________________
सर्ग ५ श्लो० १४४-१४७] हीरसौभाग्यम् કરેલી ભિન્ન ભિન્ન રચનાઓને સમુદાય હોય તેમ જણાતો હતો. ૧૪જા
- निष्पतन्मदविलोलकपोला-स्तत्पुरः समचलन् द्विरदेन्द्राः ।
विन्ध्यभूध्र इव निझरशाली, जङ्गमः करणबंहिममाली ॥१४५॥
तत्पुरः हीरकुमारस्याग्रे द्विरदेन्द्रा गजराजाः समचलन् संचरन्ति स्म । किंभूताः । निष्पतन्निरन्तर निःसरन् यो मदो दानाम्भस्तेन विलोलाश्चञ्चलाः कपोला गण्डस्थलानि येषाम् । उत्प्रेक्ष्यते-विन्ध्यभूध्र इव विन्ध्याचल इव । किंभूतः । जगमः संचरन् । पुनः किंभूतः । निझरैनिःसरत्सलिलैः शालते शोभत इत्येवंशीलः । पुनः किंभूतः । करणानां शरीराणां बंहिमा बाहुल्य मलते धारयतीत्येवंशीलः । 'मलि मल्ल धारणे' धातुः । बहुरूपवानित्यर्थः ॥
લેકાર્થ ઝરતા ભદજલથી જેમના ગંડસ્થલ ચંચલ બન્યાં છે એવા ગજરાજે હીરકુમારની આગળ ચાલતા હતા. તે જાણે ઝરણાંઓવડે શોભતો અને અનેક શરીર ધારણ કરીને આવેલ જંગમ વિંધ્યાચલ પર્વત ન હોય ! ૧૪પા
स्यन्दनैः स्यदविगानितवातै-स्तत्पुरोऽङ्कविलसज्जनजातैः । पुस्फुरे सुरसमूहसनाथैः, क्ष्मागतैरिव मरुद्रथसाथैः ।।१४६॥
तस्य कुमारस्य पुरोऽग्ने स्यन्दनै रथैः पुस्फुरे दिदीपे । किंभूतैः स्यन्दनैः । स्यदेन वेगेन विगानितोऽवगणितो वातः पवनो यैः । 'स्यदझाङ्कारितपत्रपद्धतिः' इति नैषधे । पुनः किंभूतैः । अङ्के कोडे रथोत्सगे विलसन्तः शोभमाना जना मनुष्यास्तेषां जात समूहो येषु । उत्प्रेक्ष्यते-क्ष्मागतैर्भूमण्डले समेतैः सुराणां देवानां समूहेन गणेन सनाथैः सहितैर्मरुद्रथसाथैः निर्जररथवृन्दैरिव ॥
કલેકાર્થ પિતાના વેગથી જેણે પવનને અપમાનિત કર્યો છે, એટલે કે પવનવેગી અને જેની મધ્યમાં માનવસમૂહ બેઠેલે છે તેવા રથ કુમારની આગળ ચાલતા શોભતા હતા. તે જાણે દેના સમૂહસહિત પૃથ્વી ઉપર આવેલા દેવોના રથ ન હોય! ૧૪૬
स्वर्णपल्ययनपल्लविताङ्गा-स्तत्पुरः प्रविचलन्ति तुरङ्गाः । तत्तुरङ्गविजिताः शशिभास्व-द्वाजिनः किमु निषेवितुमेताः ॥१४७॥
तस्य कुमारस्याने तुरङ्गाः प्रविचरन्ति । किंभूताः । स्वर्णस्य हेम्नः पल्ययन पर्याण तेन पल्लवित मण्डितमग कायो येषाम् । उत्प्रेक्ष्यते-तेन हीरकुमारारोहणार्थमानीतेन तुरङ्गेणाश्वेन विजिताः स्वश्रिया पराभूताः सन्तो निषेवितुमर्थात्तमेवाश्वमुपासितुमेता आगताः शशिनः चन्द्रस्य भास्वतः सूर्यस्य वाजिनोऽश्वा इव ॥