________________
३४७
सर्ग ५ श्लो० १४०-१४२] हीरसौभाग्यम्
स कुमारो वाजिनमश्वमारुरोह अध्यासामास । किंभूत वाजिनम् । जितोऽर्थालक्ष्म्या पराभूतो जिष्णोरिन्द्रस्य हय उच्चैःश्रवा नाम तुरगो येन तम् । पुनः किं कुर्वन्तम् । वत्यतः शुभ्रिमविभ्रमात्फणिपति शेषनाग जयन्त परिभवन्तम् । पुनः किंभूतम् । कनकानां काञ्चनानां वैभवः पर्याणखलीनप्रमुखभृषा तं भजतीति । क इव । कैटभारिरिव । यथा कृष्णो नीडे कुलाये 'मालो' इति प्रसिद्ध जाता नीडजाः पक्षिणस्तेषां राजा गरुडस्तमारोहति चढ(ट)ति। किंभूत नीडजराजम् । जितो जिष्णुर्वासवो येन वज्रिजित्त्वात्। गत्या चातित्वरितगगनगमनेन हय इन्द्राश्वो येन । च पुनः किंभूतम् । फणिपति नागेन्द्रम् । जातिवाचित्वादेकवचनम् । सर्वनागनायकान् जयन्त पराभवन्तम् । तदरातित्वात् । स्वर्णशोभावन्तं स्वर्णकायत्वात् । गरुडविशेषणान्यपि ॥ इति दीक्षासमये कुमारारोहणार्थमानीततुरगवर्णनम् ॥
લેકાર્થ
હીરકુમાર અશ્વ ઉપર આરૂઢ થયા. પક્ષિરાજ ગરુડ પર જેમ કૃષ્ણ આરોહણ કરે તેમ ઈન્દ્રના ઉચ્ચશ્રવસ અશ્વનો પરાભવ કરનાર, નાગોનો શ? હેવાથી નાગેન્દ્રોને જીતનાર તેમજ સુવર્ણમય કાયાવાળા, પવનવેગી, અતિ ઉજ્વલ અને સુવર્ણના અલંકારોથી યુક્ત પલાણેલા અને સુશોભિત જાતિવંત અશ્વ ઉપર હીરકુમાર આરૂઢ થયા. ૧૪|
तत्र भावयतिनः पुलकोद्य-कचुकानणुमहः कटकौघाः । मुक्तिपत्तनजिघृक्षुमनस्कौ-त्सुक्यभाज इव राजकुमाराः ॥१४१॥ भूविहारिहयवाहनशस्या-नेकमूर्तय इवोत्सवपश्याः । वाहपृष्ठमधिरुह्य कुमारा, आगमन्नपि परे जितमाराः ॥१४२॥ (युग्मम् )
तत्र तस्मिन्नवसरे तस्मिन् स्थाने वा जितमाराः स्वरूपसौन्दर्याभिभूतमदनाः अपरे अन्येऽपि भावयतिनः अभिप्रायेण चारित्रवन्तः अमीपालादिमाः कुमाराः आगमन् समागताः । किं कृत्वा । वाहाना जात्यतुरङ्गाणां पृष्ठमधिरुह्य अध्यास्य । उत्प्रेक्ष्यते-उत्सव संयममहामह पश्यन्त्यवलोकयन्तीति तादृश्यो भूविहारिण्यः क्षोणीचारिण्यः हयवाहनस्य एवं तस्य शस्याः श्लाघ्याः रम्यास्तथा अनेका बह्वयो मूर्तयः शरीराणि इव । किंभूताः कुमाराः । (इव यथा पृथ्वीपति) पुलको रोमाञ्चः स एवोद्यन् प्रकटीभवन् कञ्चुकः संनाहो येषाम् , तथा अनणु महन्महः कान्तिःप्रतापश्च येषाम् । अथ वा अनणुभिर्बहुलैमहोभिः किरणैः प्रतापैश्च युक्तानां कटकानां वलयानां सैन्यानामोघाः समूहाः येषाम् । पुनः किंभूताः, मुक्तिः सिद्धिः सैव पत्तन महानगर तजिघृक्षु ग्रहीतुमिच्छु मनो येषाम् । समासान्तः कप् । पुनः किंभूताः । यत एव मुक्तिनगरजिघृक्षवस्तत एवोत्कण्ठां भजन्त इति । अथ वा औत्सुक्य संयमोत्कण्ठां भजन्ते । पश्चात्कर्मधारयः । उत्प्रेक्ष्यते-राजकुमारा इव । यथा पृथ्वीपतिपुत्राः एवंविधा भवन्ति ॥
साथ તે અવસરે અશ્વની પીઠ ઉપર આરૂઢ થઈને બીજા પણ રાજકુમાર જેવા મુમુક્ષુ કુમારે