________________
३४६
हीरसौभाग्यम् सर्ग ५ श्लो० १३७-१४० ___ स्कन्धस्यांसस्य स्कन्धं से वा प्ररूढानां प्रादुर्भूतानां केसराणां केशानां सटा श्रेणी केसरनामानः सटास्तुरगस्कन्धकुन्तलाः तत्कपटादयतुरङ्गः । उत्प्रेक्ष्यते-तस्य जयस्य चिह्न लक्षण चामर वालव्यजनमधत्त बिभर्ति स्मेव । किं कृत्वा । वैभवेन स्वलक्ष्म्या वृत्रशात्रवस्य शक्रस्य तुरङ्गम उच्चैःश्रवाः स एव मुख्यः प्रकृष्टः प्रथमो वा येषु तादृशांस्तुरङ्गान् परिभूय जित्वा ॥
શ્લેકાર્થ પિતાની ભાવડે ઇન્દ્રના ઉચૈથવસ આદિ અશ્વોને જીતીને, પિતાના અંધ ઉપર રહેલી કેશરાની શ્રેણીના બહાને તે અશ્વની જ્યલક્ષ્મીના ચિહ્નરૂપ ચામરને ધારણ કરતો ન હોય ! ૧૩છા
रोहिणीकमलिनीरमणाश्वान् , स्वोपरिस्थितिजुषः सुषमाभिः । निर्जिगीषुरिव निर्जरमार्गे, फालकेलिमयमातनुते स्म ॥१३८॥
अयमश्वः निर्जरमार्गे आकाशे फालकेलिमुच्चैरुल्ललनविशेषस्य विलासमातनुते स्म । उत्प्रेक्ष्यते-स्वस्यात्मन उपरि ऊर्च स्थिति स्थान जुषन्ते भजन्ते । ऊर्ध्वगामित्वेन आकाशगमनशीलत्वेन निजोपरिस्थितानित्यर्थः । तादृशान् रोहिण्याः कमलिन्याश्च रमणयोर्भोंः चन्द्रसूर्ययोः अश्वास्तुरङ्गमास्तान् सुषमाभिः अतिशायिशोभाभिः कृत्वा निजिगीषुनिजेंतुमिच्छुरिव॥
दो આ અશ્વ આકાશમાં ઊંચી ઊંચી ફાળો ભરીને ક્રીડા કરતો હતો. તે જાણે પોતાની ઉપર રહેલા ચંદ્ર અને સૂર્યના રસ્પોને, પોતાની સર્વોત્કૃષ્ટ શોભાથી છતવા ઇચ્છતા ન હોય ! ૧૩૮
अजितानि गरुडस्य च गत्या, निर्जयहरिहरैश्च विभूत्या । उद्गिरम्निव यशांसि हरियः, फेनपिण्डपटलीकपटेन ॥१३९।।
यो हरिस्तुरङ्गः फेनानां मुखनिर्गतकफलालानां पिण्डा बुद्बुदाकारा गोलकास्तेषां पटली वृन्द तस्य कपटेन व्याजेन यशांसि स्वकीर्तीरुद्गिरन्निव प्रकटीकुर्वन्निवास्ते । किंभूतानि यशांति । गत्या पवनवेगगमनेन गरुडस्य, तथा विभूत्या स्वलक्ष्म्या हरिहरेरिन्द्राश्वस्य उच्चैःश्रवसो, निर्जयैः पराभवनैरर्जितानि संचितानि ॥
આ અશ્વ મુખમાંથી નિકળતા ફીણના ગોટાના બહાને, ગતિવડે ગરુડ અને પિતાની લક્ષ્મીવડે ઇન્દ્રના ઉચ્ચશ્રવસ અને પરાભવ કરીને પ્રાપ્ત કરેલા યશને જાણે પ્રગટ કરતો ન હોય! ૧૩૯
आरुरोह जितजिष्णुहय तं, श्वैत्यतः फणिपतिं च जयन्तम् । वाजिन कनकवैभवरा(भा)ज, कैटभारिरिव नीडजराजम् ॥१४०॥