________________
३४४
हीरसौभाग्यम् सर्ग ५ श्लो० १२२-१३४ अथ शृङ्गारविधानानन्तर मनुष्या मानवाः अमुष्य कुमारस्यारोहणार्थमध्यारोदु तुरङ्ग जात्यवाजिनमानयनानयन्ते स्म । किंभूतस्यामुष्य । अनघस्य प्रशस्यस्य निष्पापस्य वा । उत्प्रेक्ष्यते-यशसा अर्थाद्यशःश्वत्यश्रिया निर्जितेन पराभूतेन सितभासा चन्द्रमसा नभस्त आकाशमण्डलादेत्यागत्य प्राभृतीकृतमर्थात्कुमारस्य ढौकितमिव ॥ .
શ્લોકાર્થ ત્યાર પછી, માણસો નિષ્પાપ એવા હીરકુમારને આરોહણ કરવા માટે ઉત્તમ અશ્વ લાવ્યા. હીરકુમારના ઉજજ્વલ યશથી પરાભવ પામેલે ચંદ્ર આકાશમાંથી આવીને જાણે કુમારને ભટણું ધરતો ન હોય ! ૧૩૨ા
यन्नभस्वदतिपातिरयेन, न्यक्कृतेन विनतातनयेन । तत्तुलां कलयितुं बलिदस्युः, सेवनामगमि यानतयेव ॥१३३॥
यस्य तुरगस्य नभस्वन्त समीरणमतिपतत्यतिक्रामतीत्येवंशीलेन रयेण वेगेन । 'रयो वेगप्रवाहयोः' इत्यनेकार्थः । न्यक्कृतेन विजितेन विनतानाम्नी अरुणगरुडयोर्जननी तस्यास्तनयेनात्रार्थाद्गरुडेन तत्तुलां कुमारारोहणार्थमानीततुरङ्गमवेगसादृश्य कलयितुं प्राप्तुम् । उत्प्रेक्ष्यते-यानतया वाहनत्वेन बलिदस्युः कृष्णः सेवनां परिचरणामगमि प्रा. पित इव सेव्यते स्म । 'न्यादयो ण्यन्तनिष्कर्मा गत्यर्था मुख्यकर्मणि । प्रत्यय यान्ति दुह्यादिौणेऽन्ये तु यथारुचि ॥' अनन्तेन कृष्णेन गोपी वनमगमि नीता । इत्युदाहरणम्' इति प्रक्रियाकौमुद्याम् ॥
બ્લેકાર્થ કુમારને આરોહણ કરવા માટે લાવવામાં આવેલ પવનવેગી અશ્વવડે પરાભવ પામેલ ગરૂડ તે અધના વેગની સમાનતા પ્રાપ્ત કરવા માટે જાણે વાહનરૂપે બનીને કૃષ્ણની ઉપાસના કરેતો ન હોય !
T૩૩
यो दृशा भुवि पुनर्दिवि फाले-नागवेश्मनि खुरोत्खननैश्च । स्फूर्तिभिस्तत इतस्त्रिजगत्यां, स्वाङ्ककारमिव पश्यति जेतुम् ॥१३४॥
यस्तुरामः स्फूर्तिभिर्विस्फूर्जनैः इतस्ततः संस्फुरणैः कृत्वा त्रिजगत्यां त्रिलोक्या. मपि । 'त्रिजगतीं पुनती कविसेविता' इति जिनप्रभसूरिकृतर्षभनम्रस्तोत्रे । इत्यत्रैकवचनात् त्रिजगत्यामप्येकवचनम् । त्रित्वेन त्रित्वसंख्यया वा उपलक्षिता जगती भुवन त्रिजगतीति एवं संभाव्यते । तत्त्व तु तज्ज्ञा एव विदन्ति । स्वाङ्ककार निजरंहःस्फूर्जितजैत्रप्रतिमल्ल जेतु पराभवितुमिव इतस्ततः सर्वत्रापि पश्यति । 'दूर गौरगुणैरह कृतिभृतां जैत्राङ्ककारे चरति' इति नैषधे । कथं विलोकयति तदेव दर्शयति-भुवि पृथिव्यां दृशा विलोचनावलोकनेन । पुनर्दिवि गगनाङ्गणे फालैरुच्चैरुल्ललनलक्षणैः । 'सान्द्रोस्फालमिषाद्विगायति पदा स्पष्टुं तुरङ्गोऽपि गाम्' इति नैषधे । च पुनर्नागवेश्मनि पाताले खुरैः शफैरुत्खननैः भूविदारणैः ॥