________________
३४२
___ हीरसौभाग्यम् [सर्ग ५ श्लो० १२७-१२९ भूषणैः कनकरत्ननिबद्ध-भूषितो व्यरुचदेष कुमारः । मजरीभरकरम्बितकायः, कल्पसाल इव भूतलशाली ॥१२७॥
एष हीरनामा कुमारः तदानीं कनकानि काञ्चनानि रत्नानि मणयस्तैर्निबद्धै रचितैर्भूषणैः कृत्वा भूषितोऽलंकृतः व्यरुचत् विराजते स्म । 'युद्भ्यो लुङि' द्युतादिभ्यः परस्मैपदं वा स्यात् । 'पुष्यादिद्युतादिलदितः परस्मैपदेषु' । श्यन्विकरणपुषादेद्युतादेल. दितश्च परस्य च्लेरङ् स्यात्परस्मैपदेषु । अद्युतत् अद्योतिष्ट । व्यरुचत् व्यरोचिष्ट ।' इति प्रक्रियाकौमुद्यां साधना । उत्प्रेक्ष्यते-मञ्जरीणां कलिकानां भरः समूहस्तेन करम्बितः पूरितः कायः खाखाप्रशाखालक्षण वपुर्यस्य तादृशो भूतले पृथ्वीपीठे शालते शोभते इत्येवंशीलः । भूमीमण्डलोपगत इत्यर्थः । कल्पसालः सुरतरुरिव ॥
લોકાર્થ આ હીરકુમાર સુવર્ણ અને રત્નોને આભૂષણોથી શોભતા હતા. તે જાણે મંજરીઓના સમૂહથી યુક્ત શાખા-પ્રશાખારૂપ શરીરવાળું સાક્ષાત કલ્પવૃક્ષ જાણે આ પૃથ્વીપીઠ ઉપર આવેલું ન હોય ! ૧૨ના
दर्पणेष्विव गवेषयति स्व, भूषणेषु किरणाङ्कुरितेषु । दर्पणार्पणविधाभिरमुष्मि-निष्फलाभिरजनि स्वजनानाम् ॥१२८।।
अमुष्मिन् हीरकुमारे स्वजनानां बन्धुवर्गलोकानाम् अथवा स्वस्य जनानामात्मी यलोकानाम् । सेवकानामित्यर्थः । दर्पणानामादर्शानामर्पणानि प्रदानानि । आत्मदर्शदर्शनानीत्यर्थः । तेषां विधाभिः प्रकारैः निष्फलाभिनिरर्थकाभिरजनि जाता । अमुष्मिन् कि कुर्वति । किरणैः कान्तिभिः कृत्वा अङ्कुरितेषु प्ररोहसहितेपु जातेषु भूषणेष्वाभरणेषु स्वमात्मानम् । [स्वरूपमित्यर्थः ।] गवेषयति विलोकयति । केष्विव । दर्पणेष्विव । यथा कश्चिन्मुकुरेषु स्व निभालयति ॥
બ્લેકાર્થ
હીરકુમારને દર્પણ અર્પણ કરવાની (સામે દર્પણ ધરવાની) સ્વજનોની વિધિ નિષ્ફલ બની. કેમકે હીરકુમારના શરીર ઉપર રહેલાં ગળહળતી કાંતિવાળાં આભૂષણોરૂપ દર્પણમાં તેઓ સ્વયં જોતા. હતા ૧૨૮
दीप्यते किमधिक सुषमा नोऽ-मुष्य वा मुषितमन्मथकान्तेः ।
भूषणानि मृगयन्त इतीव, स्फाररत्ननयनैरिदमङ्गम् ॥१२९॥
भूषणानि आभरणानि । उत्प्रेक्ष्यते-स्फाराणि विकाशभाजि रत्नान्येव नयनानि तैरिति हेतोरिदमङ्ग कुमारकायं मृगयन्ते पश्यन्तीव । इति किम् । नोऽस्माक भूषणानां सुषमा अतिशयिनी शोभा कि अधिका, अथवा मुषिता अपहता आच्छिद्य गृहीता मन्म