SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ सर्ग ५ श्लो० १२५-१२६] हीरसौभाग्यम् ३४१ विरुरुचे शोभितम् । किंभूतेन पाणिना राज्ञा च । पवीनां वज्ररत्नानां रोचींषि कान्तय एव चापचक्राणि धनुर्मण्डलानि तैविलसन् दीप्यमानः कटको वलयं यस्य । 'वृता विभूषा मणिरश्मिकार्मुकैः' इति नैषधे । यथा विविधरत्नप्रभासंवलित शक्रधनुरिति कविसमये प्रसिद्धिः-इति नरहर्याम् । अथ च वज्रनामा आयुधविशेषस्तथा कान्तियुक्तैर्धनुश्चकैः प्रहरणैश्च विस्फुरद्विशेषेण प्रतिपक्षलक्षपराभवनप्रकारेण विशिष्टतया स्वस्वामिभक्तिमत्त्वेन स्फुरदितस्ततो जिष्णुतया भूमण्डल स्वस्वाम्यायत्तं कुर्वन् कटक सैन्यं यस्य । पुनः किंभूतेन । गन्धसिन्धुरतुरङ्गशताङ्गालंकृतेन अर्थादाकृतिभूतैः गन्धसिन्धुरो गन्धहस्ती तथा तुरङ्गः सपर्याणिताश्वः तथा शतागो रथस्तैरलंकृतेन विविधलक्ष्मीभूतैर्विभूषितेन । पक्षे गन्धगजेग्द्रा विविधजातीयवाजिनः पुष्परथ-योग्यारथ-अध्वरथ-कर्णीरथप्रमुखरथास्तैरलंकृतेन कलितेन ॥ શ્લેકાર્થ કુમારના હાથ રાજાની શોભાને ધારણ કરતા હતા ! વજનની કાંતિરૂપી ઇન્દ્રધનુષ્યથી સુશોભિત કડાવાળા કુમારના હાથ હતા, જેમ રાજાને ધનુષ્યો અને ચક્ર આદિ શસ્ત્રોથી શોભતું સૈન્ય હોય છે, તેમ ગંધહસ્તિ, પલાણસહિત અશ્વ, અને રથ આદિ શુભ લક્ષણેની આકૃતિ ધારણ કરનારા કુમારના હાથ હતા. ગંધહસ્તિ, જાતિવંત અા તથા અનેક પ્રકારના વડે રાજા પણ અલંકૃત હોય છે. ૧૨પા रामणीयकहृतापरचित्त, तत्कलत्रमवलोक्य युवेव । जातरूपकलितो गुणशाली, शृङ्खलः किमकरोत्परिरम्भम् ॥१२६॥ तस्य कुमारस्य कलत्रं कटीम् , अर्थध्वनिना स्त्रिय वा, अवलोक्य दृग्गोचरीकृत्य । उत्प्रेक्ष्यते-शृङ्खलः । 'सा शृङ्खला पुंस्कटिस्था' । शृङ्खलशब्दस्त्रिलिङ्गः । रत्नजटितकनकघटितकटिदवरकः परिरम्भमालिङ्गनमकरोत्किमु आलिङ्गति स्मेव । क इव । युवेव । यथा तरुणः पुमान् कस्यापि लघोः प्रौढीभूत कलत्र युवती परिरम्भते । किंभूत कलत्रम् । रामणीयकेन रमणीयत्वेन स्वाभाविकसौन्दर्येण हृतानि स्ववशीकृतानि अपरेषां लक्षप्रेक्षकलोकानां कामिनां च चित्तानि मनांसि येन । किंभूतः शृङ्खलो युवा च । जात. रूपेण सुवर्णेन कलितो हिरण्मयः । तथा जातमुत्पन्न यदद्वैत रूप वपुःसुन्दरता तेन युक्तश्च । पुनः किंभूतः । गुणैः सुवर्णदवरकैः हेमतन्तुभिः शालन्ते इत्येवंशीलस्तैर्ग्रथितत्वात् । तथा गुणैरौदार्यादिभिः शृगारादिभिर्वा द्वासप्ततिकलागुणैर्वा शोभते इत्येवंशीलः ।। सार्थ શરીરનું અદ્વિતીય સૌન્દર્ય ધારણ કરનાર, ઔદાર્ય આદિ ગુણોથી શોભતો, યુવાન પુરુષ, પોતાના સ્વાભાવિક સૌન્દર્યથી લાખે પુરુષોનાં ચિત્ત હરી લેનારી સુંદર ભાર્યાને જોઈ જેમ આલિંગન આપે છે, તેમ રત્નજડિત સુવર્ણના દેરાથી શોભતો કંદરે, કુમારની કટીરૂપ સ્ત્રીને જોઈને જાણે આલિંગન કરતો ન હોય ! ૧૨
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy