________________
३४०
हीरसौभाग्यम् सर्ग ५ श्लो० १२३-१२५ भारसासहितया जितशेषः, किं श्रितो वलयमस्य विभाति ।
मोहशूरममुभिः प्रवियोज्या-ऽनेन वीरवलय विधृत वा ॥१२३॥ __ अस्य हीरकुमारस्य वलय कनककटकः विभाति । उत्प्रेक्ष्यते-भारस्य समादेर्भाविनि भूतोपचारात्सूरिपदादेर्वा सासहितया सहनशीलत्वेन । भृश सहते इति सासहिः । 'अहिर्महीगौरवसासहिर्यः' इति नैषधे । सासहिश्चाचलिः पापतिर्वावदिरित्यादय इकारान्ता निपातिताः-इति तद्वत्तिः । जितः पराभूतः शेषो नागेन्द्रः । किं संश्रितः । अथ वा मोहनामान वीर सुभटमसुभिः प्राणैः प्रवियोज्य पृथक कृत्वा । निहत्येत्यर्थः । वीरवलय सुभटत्वसंसूचकः कटको विधृत धारितमिव वा ॥
શ્લોકાર્થ શેષનાગને પરાભવ કરનારા હીરકુમારના હાથમાં રહેલાં સુર્વણનાં કડાં શેતાં હતાં. તે જાણે ક્ષમા આદિ ભાર અથવા તો “ભવિષ્યમાં આ કુમાર આચાર્ય પદની ધુરાને સુખપૂર્વક સહી શકશે !' એ સૂચન કરવા માટે જાણે ધારણ કરાયાં ન હોય ! અથવા તો મેહરૂપી વીર શત્રુને પ્રાણોથી પૃથફ કરીને અર્થાત મારીને વીરતાસૂચક વીરવલયોને જાણે ધારણ કર્યા ન હોય ! ૧૨૩
योगिनेव दधतात्मनि मुद्रा-मूर्मिकां च दधताम्बुधिनेव । फुल्लपल्लवविलासजुषा त-त्पाणिनाध्रियत कापि विभूषा ॥१२४॥
तत्पाणिना कुमारहस्तेन काप्यपूर्वा अनिर्वचनीया शोभा अध्रियत धृता । किंभूतेन तत्पाणिना । फुल्ला विनिद्रीभूता ये पल्लवाः किसलयानि तेषां विलास लीलां जुषते भजते । तत्पाणिना किं कुर्वता आत्मनि स्वस्मिन्विषये मुद्रां साक्षरोमिकां वहता । केनेव । योगिनेव । यथा योगभाजा मुनिना आत्मनि विषये योगमुद्रा उह्यते । 'मुद्रातो लभते मूल्य, विमुद्रः कार्यनाशकः । राजा मुनिश्च लेखश्च, कोशोमुष्टिश्च पञ्चमः ॥' इयं तु स्वाभाविकी मुद्रा च पुनर्वाङ्मनसां योगो(गयो) रुन्धन नियन्त्रण विद्यते यस्य स मुनिर्मुद्रा. मिङ्गिताकारविशेषम् । पुनः किंभूतेन । दधता बिभ्रता । काम् । ऊर्मिकां निरक्षरमङ्गुलीयकम् । केनेव । अम्बुधिनेव । यथा समुद्रेण ऊर्मय एवोमिकास्तरङ्गा धी(ध्रि)यन्ते ॥
લોકાર્થ વિકસ્વર પલ્લવની શોભાને ધારણ કરતા હીરકુમારના હાથ, જેમ યોગી પુરુષ યોગમુદ્રા ધારણ કરે, સમુદ્ર જેમ તરંગ ધારણ કરે, તેમ મુદ્રિકા ધારણ કરવાથી અપૂર્વ શોભાને ધારણ કરનારા બન્યા. ૧૨૪
पाणिना विरुरुचे पविरोचि-चापचक्रविलसत्कटकेन ।
गन्धसिन्धुरतुरङ्गशताङ्गा-ऽलंकृतेन जगतीपतिनेव ॥१२५।। पाणिना अर्थादधिकाराद्वा कुमारहस्तेन जगत्याः पृथिव्याः पत्या भत्रैव राज्ञेव