________________
३३८
हीरसौभाग्यम् सर्ग ५ श्लो० ११८-१२० व्यालवल्लिदलखण्डनजन्मा, शोणिमाधरदले विललास । एतदीयहृदयादनुरागो, निःसरन्वहिरिव स्थित एषः ॥११८॥
अधरदले कुमारस्याधरोष्ठपत्रे शोणिमा रक्तता । 'वर्णदृढादिभ्यः ष्यञ्च' । वर्ण विशेषार्थेभ्यो दृढादिभ्यश्च व्यञ् स्यात् , इमनिज्वा भावार्थे । 'शौक्लयं शुक्लिमा, दाढयं द्रढिमा, लावण्य लवणिमा ।' इति प्रक्रियाकौमुद्याम् । विललास बभासे । किंभूतः शो णिमा । व्यालवल्लया नागरवल्लया । 'ताम्बूलवल्ली ताम्बूली नागपर्यायवल्लयपि' इति हैम्याम् । दलानां पत्राणां खण्डनाच्चर्वणाजन्मोत्पत्तिर्यस्य । उत्प्रेक्ष्यते-एतदीयात्कुमारसंबन्धिहृदयान्मनसः। 'हृदयं मनो वक्षश्च स्तनान्तर हृत् हृदयम्' । तथा 'हृच्चेतों हृदयं चित्तम्' इति द्वयमपि हैम्याम् । निःसरन्निर्गच्छन्नेप प्रत्यक्षो बहिःप्रदेशे अधरोष्टे स्थित इव ॥
શ્લેકાર્થ નાગરવેલનાં પાન ચાવવાથી ઉત્પન્ન થયેલી લાલાશ કુમારના અધરને શોભાવતી હતી. તે જાણે કુમારના હૃદયમાંથી બહાર નિકળતો અનુરાગ, કુમારના હોઠ પર સાક્ષાત મહેલ ન હોય ! ૧૧૮
रागसगिरदनच्छदराज-तत्स्मित दशनदीधितिमिश्रम् । पल्लवोदरविहारिहिमाम्भो-विभ्रम किमु जिघृक्षति लक्ष्म्या ॥११९॥
रागस्य नागवल्लीदलास्वादनजनितरक्ततायाः सङ्गोऽस्त्यस्य तादृक् यो रदनच्छद ओष्ठस्तत्र राजद्दीप्यमान यत्तस्मित प्रमोदमेदुरतया ईषन्मात्र कुमारस्य हसित तत्कति॒ पदं लक्ष्म्या स्वशोभया महा वा उत्प्रेक्ष्यते-पल्लवोदरे प्रवालमध्ये विहरति एवंशील हिमाम्भस्तुहिनजल तस्य विभ्रम श्रिय विलास वा किमु जिघृक्षति ग्रहीतुमिच्छतीव । किंभूतम् तस्मित । दशनानां दन्तानां दीधित्या कान्त्या मिश्रं करम्बितम् ॥
શ્લેકાર્થ નાગરવેલનાં પાન ચાવવાથી ઉત્પન્ન થયેલી લાલાશના સંગથી કુમારના બંને હોઠને ભાવતી અને દાંતની કાંતિથી મિશ્રિત સ્મિતની શોભા જાણે પરવાળાની મધ્યમાં રહેલા કિનજલની ભાન ગ્રહણ કરવા ઇછતી ન હોય ! ૧૧
रज्यते स्म दशनप्रकरणा-ऽमुष्य कुण्डलिपुरंदरवाहोः । रागिणी सविधगां च रसज्ञां, प्रेक्ष्य कैर्न ध्रियते ह्यनुरागः ॥१२०॥
अमुष्य कुमारस्य दशनप्रकरण दन्तवृन्देन रज्यते स्म रक्तीभूतम् । सरागीभूयते । बालानां दन्ता हि यावकपुस्तिकया रज्यते स्म स्त्रीणां चेति लोकस्य व्यवस्था। किंभू. तस्य अमुष्य । कुण्डलिनां भोगिनां पुरंदरो वासवः शेषनागेन्द्रस्त द्वद्दीघों बाहू भुजौ यस्य । यद्रक्तीभूत तद्युक्तमेव । तदेव दर्शयति-हि यस्मात्कारणात्सविधगां पार्श्ववर्तिनी