________________
सर्ग ५ श्लो० ११५-११७] हीरसौभाग्यम्
___अस्य कुमारस्य श्रोत्रे कर्णावेव पत्रे तयोर्युग द्वन्द्वमाश्रितवत्या भजन्त्या मणिवतसिकया रत्नोत्तंसेन । 'विदर्भपुत्रीश्रवणावतंसिका' इति नैषधे । दिद्युते शोभितम् । उ. त्प्रेक्ष्यते-वदनान्तर्मुखमध्ये अमान्त्या बाहुल्यात्स्थातुमशक्नुवत्या अर्चिषा कान्त्येव । अचिः कान्तिवाची स्त्रीक्लीबलिङ्गः । 'रोदोचिषीनामगुणत्वयट अयट्' इति लिङ्गानुशासने । किंभूतया अचिंषा । पिण्डभाव पिण्डतामितया प्राप्तया । पिण्डीभूय स्थितयेत्यर्थः । पुनः किंभूतया । अस्मिन् कुमारकणे स्थितया वसन्त्या ॥
साथ કુમારના કર્ણપણે ઉપર રહેલી રત્નની સાંકળ શોભતી હતી. કુમારના મુખની કાંતિને મુખમાં સમાવેશ નહીં થવાથી ભેગી થઈને કુમારના કર્ણયુગલ ઉપર જાણે વસી ગઈ ન હોય! ૧૧પા
मन्महे सकलशीतलभासां, सार्वभौममिदमाननचन्द्रम् ।
कुण्डलच्छलतमीरमणाभ्या-मन्यथा कथमुपास्यत एषः ॥११६॥
इदमाननचन्द्रममुष्य मुखमेव चन्द्र विधु सकलाः समस्ता ये शीतलभासः चन्द्रमसः तेषां सार्वभौमव्यतिकरेण कुण्डलयोः कर्णाभरणयोः छलात्कपटात्तमीरमणाभ्यां चन्द्राभ्यामेष इदमाननचन्द्रः कथं केन प्रकारेण उपास्यते सेव्यते ॥
- दो કુમારના મુખરૂપી ચંદ્રમાં, સર્વ ચંદ્રોનું ચક્રવર્તી પણું જાણવાથી, કુંડલ રૂપ બે ચંદ્રોવડે તે મુખની ઉપાસના કરાતી હતી ! એમ અમે માનીએ છીએ. જે એમ ના હોય તો કુંડલરૂપી ચંદ્રો ઉપાસના કેમ કરે ? ૧૧૬
कुण्डले कलयती प्रतिबिम्बे, गण्डयोर्वहति हीरकुमारः ।
क्रोधमुख्यचतुरात्मविपक्षान् , भेत्तुकाम इव चक्रचतुष्कम् ॥११७॥
हीरकुमारः कुण्डले कर्णवेष्टिके वहति धारयति । कुण्डले किं कुर्वती । गण्डयोः कुमारस्यादर्शोपमगल्लयोः कपोलयोः प्रतिबिम्बे प्रतिमे कलयती बिभ्रती । उत्प्रेक्ष्यतेक्रोधः कोपो मुख्यः प्रकृष्टः प्रथमो वा येषु तादृशाः । क्रोधमानमायालोभाभिधानाश्चत्वारः चतुःसंख्याकाः कषाया एवात्मनः स्वस्य विपक्षाः शत्रवस्तान् । चतुःकषायद्वेष्यानित्यर्थः। भेत्तुकामो वैरादेककालमेव हन्तुमनाः सन् चक्राणामायुधविशेषाणां चतुष्क चतुष्टयमिब बिभर्ति ॥
લોકાર્થ હીરકુમારે બે કંડલે ધારણ કર્યા હતાં. અને તે બંને કંડલનું કુમારના ગાલમાં પ્રતિબિંબ પડતું હતું. તેથી ચાર કુંડલ થયાં ! કોધ, માન, માયા અને લેભ એ ચાર કષાય રૂપી ચાર અંતરંગ શત્રુઓને નાશ કરવાની ઈચ્છાથી જાણે ચાર ચક્ર ધારણ કર્યા ન હોય !in૧છા