SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ३३४ हीरसौभाग्यम् [सर्ग ५ श्लो० १०७-१०९ कनकस्य हेना पट्टिका भूषणविशेषः कोऽपि ललाटस्य । नलस्य भाले पट्टिका। तथा दमयन्त्या अपि । 'धृतैकया हाटकपट्टिकालके' । स्त्रीपुरुषयोरपि पट्टिकाख्य आभर. विशेष:-इति नैषधे । अधुना तु स्तम्भतीर्थद्वीपादौ लोकप्रसिद्धया 'असावउ' इति शा. यते । तदपि बहुतिलकमय ललाटाभरणमर्भकविभोः कुमारेन्द्रस्य अलीकमण्डल भालस्थलमलंकुरुते स्म भूषयामास । उत्प्रेक्ष्यते-चिहुराः केशाः पवाग्बुधरा मेघारतेषां भ्रमेण भ्रान्त्या बुद्धया निकटे समीपे विलुठन्ती तिष्ठन्ती मिलन्ती च हादिनी विद्युदिव 'चिकुराश्चिहुराः इति शब्दप्रमेदे ॥ કલેકાર્થ હીરકુમારના ભાલપ્રદેશને સુવર્ણની પદિકા ભાવતી હતી. તે જાણે કેશરૂપે મેઘની ભ્રાન્તિથી સમીપમાં આવેલી વિજળી ન હોય ! ૧૦૭ दियुते मणिकरम्बितयास्ये, शातकुम्भकृतपट्टिकयाऽस्य । स्वैरमात्मन इवाननलक्ष्म्या, निर्मितेन वरणेन निवस्तुम् ॥१०८॥ अस्य कुमारस्य आस्ये मणिभिः रत्नैः करम्बितया खचितया शातकुम्मेन कनकेन कृतया निर्मितया पट्टिकया दिद्युते । उत्प्रेक्ष्यते-आत्मनः स्वस्य स्वैर स्वेच्छया निवस्तु वासार्थ स्थातुमाननलक्ष्म्या निर्मितेन रचितेन वरणेन प्राकारेणेव । प्राकारस्यार्थोऽग्रे वक्ष्यते । तस्मादन्या पत(द)द्वयी(?) ॥ पाठान्तरे उत्प्रेक्ष्यते-मुखस्यार्थात्कुमारवक्त्रस्य इन्दुश्चन्द्रः, पद्मानि कमलानि, मुकुरा दर्पणास्तेषामभिभावेन पराभवनेन उद्भूत साक्षाप्रकटीभूत नूत नवीन महः प्रतापस्तेनेव वा ॥ दार्थ કુમારના મુખ ઉપર રોની જડેલી સુવર્ણની પટ્ટી શોભતી હતી તે જાણે કુમારના મુખ ઉપર છાથી રહેવા માટે લક્ષ્મીને પ્રાકાર ન હોય ! અર્થાત ચન્દ્ર, કમલ અને દર્પણના પરાભવથી પ્રગટ થયેલા કુમારના મુખને પ્રતાપ જાણે ન હોય! ૧૦૮ भालमण्डलममण्डयत राज-जातरूपतिलकेन तदीयम । तस्थुषात्र चरणक्षणवीक्षा-काङ्क्षिणाल्पवपुषांशुमतेव ॥१०९।। भालमण्डल ललाटपट्टः राजन् शोभमानः जातरूपस्य स्वर्णस्य तिल(क)विशेषकस्तिलकः तेनामण्ड यत भूषितम् । उत्प्रेक्ष्यते-चरणस्य चारित्रस्य क्षणो महोत्सवः तस्य वीक्षा दर्शन काङ्कतीत्येवंशीलेन अभिलाषुकेण, तथा अल्प लघु वपुः शरीर यस्य ताहशेनात्र भाले तस्थुषा अर्थात्समेत्य स्थितवता अंशुमता भास्करेणेव ॥ सार्थ જાત્ય સુવર્ણનું દેદીપ્યમાન તિલક કુમારના લલાટ પર શોભતું હતુ. તે જાણે ચારિત્ર १ 'इन्दुपद्ममुकुराद्यभिभावोद्भूतनूतमहसेव मुखस्य इति पाठान्तरम् ।
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy