________________
१
मर्ग ५ श्लो० ८९-९१] हीरसौभाग्यम्
३२७ भारती श्रुतियुगाञ्जलिना तां, स्वस्वसुमधुसखी विनिपीय ।
शैक्षवनिजगुरोहितशिक्षा, स स्म भूत्प्रमदभेदुरिताङ्गः ॥८९॥
स हीरकुमारः स्वस्वसुनिजभगिन्या विमलायास्तां स्वजनादेशादानरूपां भारती वाणी श्रुतियुग कर्णयुगमेवाञ्जलिस्तेन विशेषेण सादर निपीय पीत्वा प्रमदेन हर्षेण मेदु. रित पुष्टीभूतमङ्ग वपुर्यस्य तादृशः स्म भूत्स जातः । किंवत् । शैक्षवत् । यथा शैक्षः प्राथमकल्पिकः निजगुरोहितामैहिकामुष्मिकसाधनकारिणी शिक्षा सादर श्रुत्वा हृष्टो भवति । किंभूतो भारतीम् । मधुनः क्षौद्रस्य सखीं वयसीं मधुमृष्टाम् ॥
પ્લેકાર્થ જેમ નવદીક્ષિત શિષ્ય આ લોક અને પરલોકમાં હિતકારી એવી પોતાના ગુરુની હિતશિક્ષા આદર સહિત સાંભળીને હર્ષિત બને, તેમ હીરકુમાર પોતાની ભગિની વિમલાની મધુની સહેદરી સમાન વાણી-સુધાનું કર્ણરૂપ અંજલિવડે પાન કરીને હષ્ટપુષ્ટ શરીરવાળા બન્યા. ૮૯
स्वानुजादिनिखिलस्वजनेभ्यः, शासन व्रतविधेः पृथुकोऽपि ।
आददे पुनरसौ व्यवहारी, लामवद्विविधवस्तुगणेभ्यः ॥१०॥
अपि पुनः पृथुको हीरकुमारः स्वस्यात्मनोऽनुजो भ्राता श्रीपालनामा स आदी येषां तादृशाः निखिलाः समस्ताः स्वजनाः गोत्रिवर्गमनुष्यास्तेभ्यः सकाशाइतविधेः संयमाचरणस्य शासनमादेशमाददे गृहीतवान् । किंवत् । लाभवत् । यथा व्यवहारी व्यापारकारको विविधानां नानाप्रकाराणां वस्तूनां क्रियाणकाणां गणेभ्यः समुदायेभ्यो लाभमधिकफल गृह्णाति । 'लाभोऽधिक फलम्' इति हैम्याम् ॥ इति भगिनीवचनानन्तर स्वजनवर्गादेशग्रहणम् ॥
શ્લોકાઈ જેમ કોઈ વેપારી વિવિધ પ્રકારના કરીયાણાઓના સમૂહથી અધિક લાભ મેળવે, તેમ બાળક એવા હીરકુમારે પોતાના લઘુભ્રાતા શ્રીપાલ આદિ સમસ્ત સ્વજનવર્ગ પાસેથી દીક્ષા ગ્રહણ માટેની આજ્ઞા પ્રાપ્ત કરી. ૧૯
भूचरानिव विधेरनुवादान् , सोपवीतकृतवेदनिनादान् । राजहंसगकमण्डलुपाणी-नाजुहाव गणकान् स सुवाणीन् ॥११॥
स हीरकुमारो गणकान् ज्योतिःशास्त्रविदः । 'सांवत्सरो ज्योतिषिको मौहतिको निमित्तवित् । दैवज्ञगणकादेशिज्ञानिकाान्तिका अपि ॥' इति हैम्याम् । आजुहाव आकारयामास । किंभूतान् । सहोपवीतेन यज्ञसूत्रेण वर्तन्ते ये । पुनः किंभूतान् । कृतो निर्मिती वेदानां निनाद उच्चारो यैस्ते । पश्चात्कर्मधारयः । पुनः किंभूतान् । राजहंसवद्गच्छन्ती
१ 'सोऽभवत्' इत्येवमेव पाठः साधुः ।