________________
३२६
हीरसौभाग्यम् [सर्ग ५ श्लो० ८६-८८ હતિ થયા. અતિ સુકુમાર એવા તેતર પક્ષીના પીંછાના સ્પર્શથી જેવું સુખ ઉત્પન્ન થાય તેવા સુખને હીરકુમારે અનુભવ કર્યો ! ૫૮
रोमहर्षणमिषात्तदनुज्ञो-द्वेलहजिलधौ शिशुकाये । उत्स्व(च्छ्वोसन्ति किमु किंचन लोल-बालशालिशफराः परितोऽमी ॥८७॥
शिशुकाये हीरकुमारशरीरे रोमहर्षणस्य रोमाञ्चस्य मिषाच्छलादमी प्रत्यक्षलक्षाः किंचन किमपि लोलन्तश्चञ्चलीभवन्तः । 'कावेरीतीरभूमीरुहभुजगवधूभुक्तमुक्तावशेषः कर्णाटीधीनपीनस्तनवसनदशान्दोलनस्पन्दमन्दः । लोलल्लाटीललाटालकतिलकलतालास्य लीलाविलोलः कष्ट भो दाक्षिणात्यः प्रसरति पवनः पान्थकान्ताकृतान्तः ॥' इति भोजप्रबन्धे । बाला लघवः शालिनः शोभाकलिताः शफरा मीनाः । परित सर्वतः । उत्प्रेक्ष्यते उत्स्व(च्छव)सन्ति उच्छलन्ति । किंभूते शिशुकाये । तस्या विमलानाम्न्या भगिन्या अनुज्ञा संयमादानादेशस्तेनोद्वेलो वेलामतिकम्य प्रसरन् यो हर्षः प्रमोदः स एव जलधिः समुद्रो यत्र । यादःपतित्वान्मकराकरत्वाञ्च मीनानां संभवो युक्त एव जलनिधौ ॥
પિતાની જે ભગિની વિમલા પાસેથી દીક્ષાની અનુમતિ પ્રાપ્ત થવાથી, જેના બાલશરીરમાં કિનારાનું પણ ઉલ્લઘંન કરી રહેલે આનંદ સમુદ્ર છે, એવા હીરકુમારના બાલશરીરમાં રોમાંચનાં બહાને જાણે ચપલ બનેલી તરફ ઉછળતી કેટલીક બાલ માછલીઓ ન હોય !u૮ળા
एतया ध्वनिनिरस्तविपञ्च्या, भूतलोपगतयेव घृताच्या ।
त्वं गृहाण च सगोत्रजनेभ्यः, शासन स पुनरेतदवादि ॥८८॥
एतया भगिन्या पुनरेतदित्थममुना प्रकारेण स कुमारोऽवादि भाषितः । किंभूतया एतया । ध्वनिना मधुरस्वरेण निरस्ता तिरस्कृता विपश्ची वीणा यया । उत्प्रेक्ष्यतेभूतले क्षोणीमण्डले उपगतया प्राप्तया । 'उपगतोऽपि च मण्डलनाभिताम्' इति रघुवंशे । मण्डलनाभितां द्वादशराजचक्रवर्तितां प्राप्त इति तदृत्तिः । आगतया वा । 'आगमने च गमनार्थाः समभ्युपाङ्भ्यः पराः कथिताः' इति क्रियाकलापे । घृताच्या घृताचीनामाप्सरसा इव । 'अवतरति घृताचीस्कन्धविन्यस्तहस्तः' इति चम्पूकथायामिन्द्रविशेषणम् । तथा-'इत्यनक्षरमवाचि घृताच्या दीर्घनिःश्वसितनिर्गमितेन' इति नैषधे । इदं किम् । तदाह-हे वत्स, च पुनस्त्वंसगोत्राः स्वजना एव जनास्तेभ्यः शासन दीक्षादेश गृहाण आदत्स्व ॥
કલેકાર્થ પોતાના મધુરસ્વરથી વીણાને તિરસ્કાર કરનારી એવી વિમલા ફરીથી મધુર સ્વરે આ પ્રમાણે કહેવા લાગી; હે વત્સ, તું આપણા સ્વજનો પાસેથી દીક્ષાની અનુજ્ઞા મેળવ. વિમલાની આ વાણી જાણે આ ભૂમંડલ પર આવેલી સાક્ષાત અસરાની દીર્ધ નિઃશ્વાસગર્ભિત વાણી ન હોય ! ૮૮