SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ सर्ग ५ श्लो०.८४-८६] हीरसौभाग्यम् નાશ કરનારો બને છે. નીચ માણસને સંગ ખરેખર હાથે કરીને અગ્નિમાં હાથ નાખવા જેવો છે. ।।८४॥ संमृतेर्मतिमतां वर ! तस्या-स्त्वं पृथग्भवितुमिच्छसि वत्स ! । पुण्डरीकमिव पल्बलपङ्कात् , तत्सगर्भ ! भुवि धन्यतमस्त्वम् ॥८५|| हे मतिमतां वर सुबुद्धिभाजां श्रेष्ठ हे वत्स, लघुभ्रातः । 'वत्सा उरस्तुग्वर्षतर्णकाः' इत्यनेकार्थः । तुक अपत्यमुपलक्षणाल्लघुभ्रात्रादावपि इत्यवचूर्णिः । तस्याः पूर्वव्यावर्णितस्वरूपायाः संसृतेः संसारात्सकाशात्त्व पृथग्भवितुम् । त्यक्तुमित्यर्थः । इच्छसि वाञ्छसि । किमिव । पुण्डरीकमिव । यथा पल्वलपकात्तटाककर्दमात्कमल भिन्न भवति । भूमीपीठे जम्बालः, तदुपरि जलम् । द्वे अपि मुक्त्वा द्वयोरुपरि पद्म तिष्ठेत् । पुण्डरीकशब्देन तस्य श्रेष्ठत्वख्यापन तत्कारणात् । समान एको गर्भो यस्य तस्य संबोधन हे सगर्भ बान्धव भुवि पृथिव्यां त्वमेव धन्यतमः अतिशयेन पुण्वान् । 'सुकृती पुण्यवान् धन्यः' इति हैम्याम् ॥ इति दीक्षानुज्ञादानानन्तर धर्मकारकत्वेन भगिनीस्तुतिः ॥ सार्थ બુદ્ધિમાન પુwોમાં શ્રેષ્ઠ એવા હે લઘુબાંધવ, તું ખરેખર ધન્યવાદને પાત્ર છે. કારણ કે જેમ તળાવમાં ઉત્પન્ન થયેલું કમાલ, જળ અને કાદવ બંનેને ત્યાગ કરીને ઉપરના ભાગમાં નિર્લેપપણે રહે છે, તેમ તું પણ કાદવતુલ્ય અસાર સંસારથી પૃથફ થવાને માટે ઇચ્છે છે. અર્થાત સંસારને ત્યાગ કરવાને ઇચ્છે છે માટે હું સહોદર, તું ધન્યાતિધન્ય છે, '૮૫ एतदालपितमात्मभगिन्याः, श्रोत्रपत्रपुटकेन निपीय । सातमाप मृदुतित्तिरपिच्छ-स्पर्शजातमिव हीरकुमारः ॥८६॥ • आत्मभगिन्या निजजामेः एतत्पूर्वोक्तं भ्रातृप्रशंसाकरणात्मकमालपित भाषित श्रोत्र कर्णस्तदेव पत्रस्य पर्णस्य पुटको भाजनविशेषः । 'इंदडों' इति लोकप्रसिद्धः । तेन निपीय पीत्वा । सादर श्रुत्वेत्यर्थः। हीरकुमारः सात सुखमाप लेभे । उत्प्रेक्ष्यते-मृदु सुकु. मार यत्तित्तिरः खरकोणः पक्षिविशेषः । लोके 'गणेश' इति प्रसिद्धः । तस्य पिच्छ पतत्र तनूरुह तस्य स्पर्शः संघट्टस्तेन जातमुत्पन्नमिव सुखम् । अर्थात् कर्णयोः तित्तिरपक्षिणोऽतिमृदुलपिच्छस्य परावय॑मानस्य कर्णेऽतीव सात जायते । यदुक्त चम्पूकथायाम्-'कोण किं नु निषिच्यते तव बलात्तैल सखि श्रोत्रयोरन्तस्तित्तिरपक्षिपत्रमथ वा मन्द मृदु धाम्यति । येनाङ्गेषु निखातमन्मथशरप्रस्फारपिच्छच्छविलीमेचकितो. ञ्चकञ्चुकरुचा रोम्णां वहत्युद्गमः ॥' इति॥ શ્લેકાર્થ પિતાની ભગિનીનાં આવાં તાવિક વચનનું કર્ણયુગલથી પાન કરીને હીરકુમાર અત્યંત
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy