SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३२२ हीरसौभाग्यम् [सर्ग ५ श्लो० ७७-७९ यां हि संयमग्रहणमनुचित शिशुत्वेनायोग्यत्वात् । कस्येव । योद्धरिव । यथा भटस्यापटुतायां सत्यामसामर्थ्य सति आहवे संग्रामे अनौचिती। 'योद्धारस्तु भटा योधाः' इति हैम्याम् । तेन हेतुना हे वत्स, त्वं कियतीः कियत्प्रमाणाः शरदो वर्षाणि तिष्ठ गृहे स्थितिं कुरु प्रतीक्षस्व । स्वसौध एव वैराग्यवान् वासं विधेहि ॥ इति विमलायास्तुतीयवार वाक्यम् ॥ કલેકાર્થ હે ભ્રાતા ! હમણાં તારે પારમેશ્વરી પ્રવજ્યા ગ્રહણ કરવી અયોગ્ય છે; કારણકે હજુ તારો બાલ્યાવસ્થા છે, જેમાં અશિક્ષિત દ્ધાને સંગ્રામમાં યુદ્ધ કરવા જવું અગ્ય છે, તેમ તારે પણ બાળવયમાં વ્રત ગ્રહણ કરવું સર્વથા અગ્ય છે, માટે હે વત્સ, હમણાં તું કેટલાંક વર્ષો ઘરમાં २७. ' ७७॥ शैशवेऽपि मदमोहमहेभान् , सिंहशाव इव हिंसितुमीशः । तत्समादिश ममास्य निदेश, तामिदं तदनु सोऽपि जगाद ॥७॥ तदनु भगिनीभाषितस्य पश्चात् सोऽपि हीरकुमारोऽपि तां विमलां प्रति इदमस्मिन्नेव काव्ये प्रोच्यमान जगाद बभाषे । हे जामे, शैशवे बाल्येऽप्यहं मदाः जाति-कुलरूप-बल-श्रुत-लाभ-तप-ऐश्वर्यनामानोऽष्टौ, तथा मोहो मौढ्यं रागो या, त एव महेभा मत्तहस्तिनस्तान् हिंसितुं निहन्तुं समर्थोऽस्मि । क इव । सिंहशाव इव । यथा केसरिकिशोरकः शिशुत्वेऽपि गजेन्द्रान् दलयितुमलंभूष्णुर्भवेत् । 'विश्वव्यापि तमो हिनस्ति तरणिर्बालोऽपि कल्पाकुरो दारिद्रा(द्रयाणि गजावलिं हरिशिशुः काष्ठानि वह्नः कणः।' इति पूर्वाचार्यप्रणीतश्रीचिन्तामणिपार्श्वनाथस्तुतौ । तथा 'सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु । न पुनर्नखमुखविलिखितभूतलकुहरस्थिते नकुले ॥' इति सूक्तेऽपि, तत्कारणात्त्व मम लघुभ्रातुरस्य संयमस्य ग्रहणस्य निदेशमाशां देहि ॥ इति विमलां स्वसार प्रति कुमारस्यापि तृतीयवार प्रतिवचः ॥ કાર્થ ભગિનીનાં આવાં વચન સાંભળીને હીરકુમાર બેલ્યા; હે ભગિની, બાળક એવો હું, જાતિ, કુળ આદિ આઠ મદ અને મેહરૂપી મદોન્મત હાથીઓને નાશ કરવા માટે સિંહશિશુની જેમ સમર્થ છું. તે છે બહેન, તારા લઘુભ્રાતા એવા મને સંયમ ગ્રહણ કરવાની આજ્ઞા આપ.” I૭૮ तस्य वीचिभिरिवामरसिन्धो-रुक्तियुक्तिभिरितोऽप्यपराभिः । ओमिति प्रवदति स्म कथंचित् , सापि बाष्पभरगद्गदवाग्भिः ॥७९॥ अमरसिन्धोर्देवनद्याः गङ्गाया वीचिभिः रगत्तरङ्गैः इव तस्य कुमारस्य इतो. ऽप्येतत्पूर्वोक्तादप्यपराभिरन्याभिरुक्तियुक्तिभिर्वचनप्रपञ्चैः सा विमला जामिरपि कथंचिन्महता कष्टेन बाष्पाणां दुःखाश्रूणां भरेण निरन्तरप्रवाहेण कृत्वा गद्गदाभिरस्पष्टाक्षराभि
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy