________________
सर्ग ५ श्लो० ७५- ७७]
मानवान् स्वयमसौ छलदर्शी, छाययास्त्यनुसरन्निव कालः | आयतौ हितमतः करणीयं तज्जिनक्रमयुगं शरणीयम् ॥ ७५ ॥
,
हे सोदरे. असौ प्रत्यक्षः चर्मचक्षुभिरपि लक्ष्यमाणः स्वयमात्मना छलदर्शी छिद्रावलोककः रन्ध्रान्वेषी कालो यमः छायया वपुःप्रतिच्छायिकया । छायाछलेनेत्यर्थः । मानवान्प्रति मनुष्यान् प्रति मनुष्याननुसरन्ननुगच्छन्निवास्ति । यदुक्तम्- 'छायामिसेण कालो, सव्वजियाण छल गवेसन्तो । पास कहवि न मुञ्चइ, ता धम्मे उज्जम कुणह ||' इति वचनात् । अतोऽस्मात्कारणान्मानवैरायतौ उत्तरकाले हितम् । येन कृत्वा जन्तुः इहलोक परलोकयोः सुखी स्यात् तद्धितं पथ्यं करणीयं विधातव्यम् । तत्कारणात्तद्धित: कर्तृ जिनक्रमयुगं श्रीवीतरागचरणयुगलं शरणीयं शरणीकरणीयमाश्रयितव्यम् ॥ इति हीरकुमारस्य भगिनीं प्रति द्वितीयवार प्रत्युत्तरवचांसि ॥
३२१
લાકા
‘હે ભગિની, નિર ંતર છળ જોતે। આ સાક્ષાત્ યમ મનુષ્યાની છાયાને બહાને જીવની પાછળ પાછળ અનુસરે છે! તેથી હિતકાંક્ષી એવા મનુષ્યાએ ભવિષ્યમાં આલેક અને પરલેકને હિતકારી એવા શ્રીવીતરાગ પરમાત્માના ચરણુયુગલનું શરણુ સ્વીકારવું જોએ, ’ છપા
वाङ्मयैर्जितसुधामधुदुग्धै- निर्जयं विदधतीव शुकीनाम् ।
इत्थमुक्तवति हीरकुमारे, सा बिभेद वदनाम्बुजमुद्राम् ॥७६||
हीरकुमारे इत्थममुना प्रकारेण उक्तवति भाषितवति सति सा विमला वदनाम्बुजमुद्रां मुखकमलमुद्रण मौनलक्षणां बिभेद त्यक्तवती । बभाषे इत्यर्थः । उत्प्रेक्ष्यते - जि. तानि पराभूतानि सुधा पीयूष मधु क्षौद्र दुग्ध पयो यैस्तादृशैर्वाकमयैर्वचनविलासैः कृत्वा शुकीनां कीरकान्तानां निर्जयं विदधतीव कुर्वतीव ॥
ક્લાકા
આ પ્રમાણે હીરકુમારે કહ્યું ત્યારે વિમલાએ પેાતાના મુખકમલની સકુચિતતાને ત્યાગ કર્યા, અર્થાત્ મૌનનેા ત્યાગ કર્યાં, જાણે પેાતાની વાણીની મધુરતાથી પરાભવ પામેલા અમૃત, મધ અને દુધથી શુકલભા પર વિજય મેળવતી ન હોય ! ૫૭૬॥
नाती व्रतविधौ तव तेना-द्यापि यत्स्फुरति शैशवमङ्गे ।
यो राहव इवापटुतायां, तेन तिष्ठ कियती: शरदस्त्वम् ॥७७॥
हे सहोदर, तेन कारणेन तव भवतो व्रतविधौ संयमग्रहणप्रकारे नार्हती न योग्यता अर्हतो भावः आर्हती । 'अर्हतो नुम्बा' इति विभाषया नुम्विधानादार्हन्ती आर्हतीतिरूपद्वयं स्यात् । 'उडुपरिषदः किं नार्हन्ती निशः किमनौचिती' इति नैषधे । यद्यस्मात्कारणात्तवाङ्गे भवतः शरीरे शैशव बालभावः स्फुरति दीप्यते । बाल्यावस्था