________________
हीरसौभाग्यम् सर्ग ६ श्लो० ६८-७० ___हे जामे, तुहिनौं हिमसमये शीतकाले शमवतामुपशमिनां मुनीनाममी शर्मणे सुखाय भवन्ति । अमी के तान् प्रतिपादयति-कृतो विहितः सङ्गः सर्वाङ्गानुषङ्गो यया तादृशी विरतिः सर्वसङ्गपरित्यागलक्षणा सदापार्श्ववर्तिनी वरवर्णिनीव कान्तेवास्ते । तथा असौ संसार मुमुक्षुभिरहर्निश ध्यायमाना ध्यानसंततिः प्रणिधानानामेकाद्यशैः क्रियमाणत्वात् परम्परा हसनी अङ्गारशकटीव ध्यानलीलानां न शीतं न तापश्च लगति । तथा शान्तता शमपरिणामः अफ्वरक इव वर्तते । किमु इवार्थे । गर्भागारः किमु । गर्भागारेऽपवारकः' इति हैम्याम् ॥ इति कुमारोक्तं यतिसातकच्छीतकालकाव्यम् ।
પ્લેકાર્થ लगिनी, भेशा साथे २ नारी साविति३५॥ स साना त्याग३५ ) स्त्री, निरंतर સંસારની અસ્થિરતાનાં ચિંતન-ધ્યાનરૂ૫ અંગારાની સગડી, અને સમભાવરૂપ રડે... આ સર્વે સાધુઓને શતકાળમાં સુખને માટે થાય છે.' ૬૮
अङ्गराग इव सद्गुरुशिक्षा, श्रीजिनस्य च विधोरिव सेवा ।
केलिरब्जसरसीव च योगे, प्रीणयन्ति शमिनोऽपि निदाघे ॥६९॥ हे जामे, एते पदार्था निदाघे ग्रीष्मसमयेऽपि शमिनः शान्तमानसान् मुनीन् प्रीणयन्ति तोषयन्ति । तानेव प्रदर्शयत्ति-एकः सन् शोमनो गुरुहिताहितोपदेशकः तस्य शिक्षा स्वर्गापवर्गमार्गकसाधनविधायिकानुशास्तिः अङ्गरागो विलेपनमिवास्ते । च पुनः श्रीभिश्चतुस्त्रिंशदतिशयलक्ष्मीभिः कलितो जिनो वीतरागस्तस्य विधोश्चन्द्रमस इव सेवा परिचर्या । च पुनोगे यम-नियम-करण-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधिरूपाष्टाङ्गलक्षणे अब्जसरसि कमलकलिततटाके इव केलिर्जलक्रीडा प्रीणातीति शेषः ॥ इति कुमारोक्त मुनिमन सुखकृत् ग्रीष्मसमयकाव्यम् ॥
કલેકાર્થ હે ભગિની, ચંદનના વિલેપન સમાન સગુસ્ની હિતશિક્ષા, ચંદ્ર સમાન શતળ ચોત્રીસ અતિશયની લક્ષ્મીથી યુકત શ્રીવીતરાગ પરમાત્માની ઉપાસના, તેમજ યમ નિયમ, કરણ, પ્રાણાયામ, પ્રત્યાહાર, ધારણા, ધ્યાન અને સમાધિ, આ આઠ પ્રકારના ગોમાં સ્થિરતારૂપે કમલ સરોવરની જલક્રીડા ! આ બધું સાધુઓને ગ્રીષ્મકાલમાં તુષ્ટિ-શાંતિને માટે હોય છે. માદા
यत्र गीतय इचागमघोषा-स्ताण्डवा इव पुनर्भवभावाः ।
वारिवाहदिवसाः शमभाजां, नित्यमुत्सवमया इव सन्ति ॥७०॥ . हे भगिनि, वारिवाहदिवसा वर्षाकालवासराः शमभाजां शान्तरसशालिनां श्रमणानां नित्यं सदोत्सवमयाः महामहप्रचुराः सन्ति । तदेव दर्शयति-यत्र प्रावृषि वर्षाकाले आगमानां सिद्धान्तानां घोषाः पठनध्वनयः गीतयोगानामिव श्रूयन्ते । पुनर्यत्र भवभावाः सर्वे संसारपदार्थाः संसारस्वरूपाणि वा ताण्डवा नृत्यानीव नाटकानीव विलोक्यन्ते । ताण्ड