________________
सर्ग ५ श्लो० ७०-७२] हीरसौभाग्यम्
३१९ वशब्दः पुनपुंसके । 'पूर्वत्रिदिवताण्डवाः' इति लिङ्गानुशासने ॥ इति कुमारोक्त श्रमणस्वान्तविश्रामकारि वर्षतुकाव्यम् ॥
કલોકાર્થ હે ભગિની, વર્ષાકાળના દિવસો તો શાંતરસમાં ઝીલતા સાધુઓને માટે મહત્સવ રૂપ બને છે! વર્ષાકાલમાં સાધુઓ સિદ્ધાંતોના પાઠના શેષરૂ૫ ગીતગાનને સાંભળે છે, તેમજ સંસારની સર્વ ચરાચર પદાર્થોની ક્ષણિકતાના દર્શનરૂપ નાટકને જુએ છે. ૭ળા
यौ विजेतुमिव वारिजराजी, पश्यतस्तत इतः क्रमणेन ।
पल्लवांश्च विभवैरतिदृप्तौ, तौ क्रमौ कलयतः किमसातम् ॥७१॥ हे भगिनि, तौ क्रमौ चरणौ असात दुःख कथं कलयतः धत्तः । यो क्रमौ विभवैलक्ष्मीभिः कृत्वा अतिदृप्तौ अधिकमदाध्मान्तौ सन्तौ वारिजराजों कमलमालां च पुनः पल्लवान् प्रवालान् जेतु पराभवितु तत इतः इतस्ततः क्रमणेन पर्यटनेन पश्यतः विलो. कयतः । यौ परान् विजिगीषतस्तौ सातासात न गणयतः ॥
શ્લોકાથ ' હે ભગિની ! આ બે ચરણ દુ:ખને કેવી રીતે ધારણ કરે? કારણકે જે પોતાની લક્ષ્મીવડે મદાંધ થયેલા ચરણો, કમલેની પંક્તિ અને પલ્લવોને જીતવા માટે આમ તેમ ફરતા જોવામાં આવે છે. અર્થાત્ અન્યને જીતવાની ઈચ્છાવાળા તે બને, સુખ દુઃખને જરાયે ગણતા નથી. ના
द्वेषिणामिव गणाः शितिमान, वक्रभावमपि ये कलयन्ति ।
को महाभट इवात्महितैषी, नोच्छिनत्ति ननु तानिह केशान् ॥७२॥ ननु इति प्रश्ने । हे स्वसः, तान् केशान् कुन्तलान् कः प्राज्ञः पुमान्नोच्छिन्नत्ति नोच्छेदयति । कः किंभूतः । आत्मनः स्वस्य हितमायतिकाल सुखमिच्छतीत्येवंशील आत्महितैषी स्वसुखाभिलाषुकः। क इव । महाभट इव । यथा सर्वागीणबलवान् सुभटः राजादिकः स्वाभ्युदयकाङ्क्षी सन् कुत्सितान् ईशानधिपतीन् केशान् कुग्रामवासिनः पल्लीपतिप्रमुखानथवा सीमालाभूपालान् स्वस्पर्धित्वेन शत्रूनुच्छेदयति । तान् कान् । ये द्वेषिणां वैरिणां गणा व्रजा इव शितिमानमर्थान्मनसि श्यामतां कालुष्यम् । द्रोहमित्यर्थः। अपि पुनर्वक्रभाव कुटिलतां कपटिभाव कलयन्ति बिभ्रति । प्रायः सत्पुरुषाणां स्त्रीणां च केशेषु वक्रत्वं वर्ण्यते । यथा चम्पूकथायाम् 'वक्रोक्तिकुशलस्य नलस्य केशकलापोऽपि वक्रतां भेजे' । तथा 'अरालकेशी वशा' ॥
साथ હે બહેન, ભવિષ્યમાં સુખાભિલાષી એવો કોણ ડાહ્યો પુરુષ કેશને ઉછેદ ન કરે? જેમ
१ परस्मैपद चिन्त्यम् ।