________________
हीरसौभाग्यम् [सर्ग ५ श्लो० ६३-६५ नाः घन समीहन्ते, तेन शरदपि वर्षान्तरे वोच्यते । प्रावृषेण्या वर्षासमयसंबन्धिनो दिवसा दिनानि कथं कया रीत्या त्वया विषह्याः सहनीयाः। किंभूतेन त्वया । गीत गानम् , नृत्य नाटकम् , युवतीजनस्तरुणीभिः साध लीला विलासः दोलान्दोलनप्रमुखाः क्रीडाः, ता मुख्याः प्रकृष्टा मुखे आदौ भवा मुख्या आद्या यत्र तादृक् यत्सौख्य सांसारिकसुख तस्माद्विमुखेन पराङ्मुखेन । तत्त्यक्तुकामत्वात् । प्रावृषेण्यदिवसा उत्प्रेक्ष्यन्ते-रतिपतेः कामस्य क्रीडितु विलसितु गेहा मन्दिराणीव ॥ इति वर्षाऋतुकाव्यम् ॥
सो હે ભ્રાતા, તું ગીત-ગાન, નાટક-ચેટક, યુવતિજનની સાથે હિંડોળા આદિની ક્રીડા વિગેરે સાંસારિક સુખનાં સાધનો વિના, કામદેવની ક્રીડામંદિર સમાન વર્ષાઋતુના દિવસો કેવી રીતે પસાર કરી શકીશ? ૬૩
जृम्भमाणजलजद्वितयीवा-घ्रिद्वयी प्रदधती म्रदिमानम् ।
क्षोणिचङ्क्रमणदुःखमियं ते, मर्पयिष्यति कथं कथयैतत् ॥६४॥ हे सहोदर, त्वमेतन्मया प्रोच्यमान कथय निवेदय । इय शङ्खचक्राकुशातपवारणादिलक्षणैर्लक्षिता अघ्रिद्वयी चरणयुगली क्षोणिचक्रमणस्य कठिनभूमीपीठे पर्यटनस्य पर्यटनेन वा दुःखमसात कथं मर्षयिष्यति सहिष्यते । किं कुर्वती। म्रदिमान सौकु. मार्य प्रदधती प्रकर्षणातिशयेन बिनाणा केव । जम्भमाणजलजद्वितयीव । यथा स्मेरकमलयामलम्रदिमान धत्ते ॥
શ્લોકાર્થ हे सहा६२, तु. ४, , , मधुश, छत्र आदि शुभ सक्षोथा युत भसયુગલની જેમ અતિ સુકુમારતાને ધારણ કરતા તારા ચરણયુગલ કઠિન ભૂમિ પર પગરખાં વિના ચાલવાથી થતા દુઃખને કઈ રીતે સહન કરી શકશે? ૬૪
वक्त्रवारिजधिया समुपेतां, षट्पदावलिमिवालकमालाम् ।
लुश्चयिष्यसि कथं मुखलक्ष्मी-न्युञ्छितामृतमयू व ! सगर्भ ! ॥६५।।
हे मुखलक्ष्म्या वदनशोभाया उपरि न्युञ्छितो न्युञ्छनीकृत्य क्षिप्तोऽमृतमयूखश्चन्द्रो यस्य [अर्थाद्विधिना] स तस्य संबोधन हे मुखलक्ष्मीन्युञ्छितामृतमयूख, समानो गर्भो यस्य । 'सहादेः' इति समानस्य स आदेशः । हे सगर्भ ! एकमातृगभॊत्पन्नभ्रातः, त्वमलकमालां चिकुरच्छटां केशपाश कथं लुञ्चयिष्यसि उत्पाटयिष्यसि । उत्प्रेक्ष्यतेवक्त्रे वदने वारिजस्य पद्मस्य धिया बुद्धया भ्रमेण समुपेतां समागतां षट्पदावली भृङ्गमा लिकामिव ॥
શ્લોકાર્થ મુખની શોભાથી ચંદ્રને તિરસ્કાર કરનારા હે સદર, તારા મુખ ઉપર કમલની ભ્રાન્તિથી