________________
हीरसौभाग्यम् सर्ग ५ श्लो० ५८-६१ અધિક રાગવતી છે, એવી ત્રણે જગત માટે ઇચ્છનીય શિવકન્યામાં મારું મન આસક્ત છે. ' પCI
निश्चिकाय वचनैरथ तैस्तै-स्तस्य सा व्रतविधौ द्रढिमानम् ।
मौक्तिकस्रजमिवाश्रुकणौघै-स्तन्वती हृदि पुनस्तमवोचत् ॥५९॥ __ अथ भ्रातुर्वचनश्रवणानन्तरसा विमला तैस्तैः पूर्वोक्तवचनैस्तस्य हीरकुमारस्य व्रतविधौ दीक्षाग्रहणविषये द्रढिमान दृढतां निश्चिकाय निर्धारयामास । निर्धार कृतवती । पुनः सा जामिः तं भ्रातरमवोचद्वक्ति स्म । किं कुर्वती । अश्रुकणोः बाष्पबिन्दुवृन्दैः । उत्प्रेक्ष्यते-हृदि हृदये वक्षसि मौक्तिकस्रज मुक्ताफलमालिकामिव तन्वती कुवेती विस्तारयन्तीव॥
લેકાર્થ ભાઈનાં આવાં વચનને સાંભળી, હીરકુમારને દીક્ષા ગ્રહણ માટે દઢ નિશ્ચય જાણી, જાણે હયમાં મોતીની માળા ધારણ કરતી હોય તેમ અત્યંત અથુપાત કરતી વિમલા ફરીથી કહેવા લાગી. પહેલા
वत्स ! वत्सलतया तव किंचि-द्वच्मि कर्णपथिकीकुरु तत्त्वम् । यद्रसायनमिव स्वजनाना-मस्ति वाग्विरचना हितगर्भा ॥६०॥
हे वत्स लघुभ्रातः, तव भवतः वत्सलतया हितकृत्त्वेन यत्किचिद्भविनामायतिहितविधायकं विचार्याहं वच्मि कथयामि, तत्त्व तवाप्यायतिसुखद मदुक्तं कर्णपथिकीकुरु श्रवणप्राघुणप्रणय । शृण्वित्यर्थः । यद्यस्मात्कारणात्स्वजनानां बन्धुवर्गाणां हित पथ्यमायतौ सुखकारकोपायो गर्भे मध्ये यस्यास्तादृशी वाग्विरचना वचनक्रमः । हितशिक्षेत्यर्थः। रसायन सिद्धौषधमिवास्ति । प्राणिनां तुष्टिपुष्टिकृद्भवति ॥
બ્લેકાર્થ ” હે લઘુભ્રાત, તારા પ્રત્યેના વાત્સલ્યભાવથી મેં કહેલાં પરિણામે હિતકારી એવાં વચન તું બરાબર સાંભળ. બંધુવર્ગને ભાવિહિત કરનારી હિતશિક્ષા, મનુષ્યોને સિદ્ધસાયણની જેમ તુષ્ટિ અને પુષ્ટિ કરનારી બને છે. અર્થાત પરિણામે હિતકારી બને છે. કળા
अङ्गनाङ्गपरिरम्भहसन्ती-गर्भगेहनिवहान् प्रविहाय । मर्षयिष्यसि कथं वद (सैष्य?) शैत्यं, भूमिमानिव भटानरिसैन्यम् ॥६१।।
हे भ्रात, त्वं वद कथय अङ्गनानां खपाणिगृहीतगृहिणीनामइस्य कायस्य परिरम्भ आश्लेषः स्वकामिनीकायेन सममालिङ्गनम् । शीतकाले तस्योष्णस्पर्शत्वात् । तथा-हसन्त्यः कृशानुशकटिकाः, तथा-गर्भगेहा अपवरकाः। 'उरडा' इति लोके प्रसिद्धाः। एतेषां निवहान् समूहान् प्रविहाय त्यक्त्वा त्वं सैष्य (शैत्य) शिशिरर्तुम् । उपलक्षणाद्धेमन्तमपि । एतावता शीतकाल कथ केन प्रकारेण मर्षयिष्यसि सहिष्यसे । 'सरते मृष्यति मर्षति