________________
हीरसौभाग्यम्
सौरभेण मलयदुरिवात्मा, यस्य धर्मविधिना सा विभाति ।
तेन विष्टपमशेषमभूषि, प्रोच्यते स्म किमुताभिजनादि ॥५६॥
सर्ग ५ श्लो० ५६-५८]
३१३
हे जामे, यस्यात्मा धर्मविधिना जैनधर्मावरणप्रकारेण विभाति स्म शोभितः । क इव | मलगुरिव । यथा चन्दनतरुः सौरभेण परिमलेन विभाति । तेन पुंसा अशेष समस्तमपि विश्वमभूषि भूषितम् । तर्हि अभिजनादि किमुत प्रोच्यते । निखिलेऽपि भुवने स्ववंशादि तु सुतरामेव भूषितमिति बोध्यम् ||
શ્લેાકા
ભગિની, જેમ સૌરભથી ચાંદનવૃક્ષ શાખે છે, તેમ ધર્માત્મા પુરુષવડે સમસ્ત જગત્શેશબે છે. તે પછી પેાતાનાં વંશ કુલાદિ કેમ ન શોભે ? ૫૫૬૫
निम्नव परिसर्पति निम्नं, या दधाति पितृसूरिव रागम् । भोगिनी कुटिला कमलाक्षी, सा सतामनुचिताभ्युपगन्तुम् ||५७||
हे जामे, या स्त्री निम्नगेव नदीव निम्न नीचैः परिसर्पति गच्छति नीचगामिनी । 'कामिन्यो नीचमामिन्यः' इति वचनात् । तथा - या स्त्री पितृसूः संध्येव क्षण राग दधाति । यथा संध्या क्षणं पञ्चाप्यतिशायिवर्णविशेषान् दर्शयित्वा नीरागा स्वयम कापि याति तथैव स्त्री । तथा या कान्ता भोगिनीब मुजी कुटिला । वक्रगामिनी वक्ति अन्यदन्यच कुरुते सा कमलाक्षी वनिता सामानाम मनुचिता सर्वथापि नैव योग्या ॥
મ્હાકા
હે બહેન, સ્ત્રી નદીની જેમ નીગામિની હોય છે, સખ્યાના રંગની જેમ તેને પણ રાગ ક્ષણિક હોય છે, અને નાગિણીની જેમ કુટિલ આશયવાળી હાય છે, માટે કમલનયના સ્ત્રીને સ્વીકાર ઉત્તમ પુરુષો માટે સર્વથા યોગ્ય નથીપણા
या जहाति न कदाप्यनुषङ्ग, या विरागवति चाधिकरागा ।
तां जगज्जनमनः कमनीयां, लिप्सते शिवकनी मम चेतः ॥५८॥
हे जामे, या वधूः कदापि कस्मिन्नपि समये भर्तुरनुषङ्ग सङ्गम् । पार्श्वमित्यर्थः । न जहाति न मुञ्चति । पुनर्या विरागवति वैराग्यभाजिनि नीरागेऽपि पुंसि अधिकरागा उत्कृष्टङ्गा भवति । तां शिवकन्यां जगद्विख्यातां मुक्तिकन्यां मम चेतश्चित्तं लिप्सते वाञ्छति । किंभूतानां जगताम् । भूर्भुवःस्वत्रयी जन्मिनां सुरासुरनराणां मनोभिरन्तःकरणैः कमनीयामभिलषणीयाम् ॥ इति प्रवज्यादृढतायां भगिनीं प्रति कुमारवचः ॥
લેાકા
‘હે ભગિની, જે સ્ત્રી પેાતાના પતિના સંગ કયારે પણ છેડતી નથી અને નિરાગી પુરુષો ઉપર